पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७४ ) क्रूरेषु सप्तमस्थेषु चन्द्रो लग्नगतो यदि । तदापि मरणं प्राप्तं वादरायणसम्मतम् ॥ २२ ॥ चन्द्रे व्ययगते क्षीणे पापैर्लग्नाष्टमाश्रयैः । कण्टकैः शुभवज्जैश्च जातस्य मरणं भवेत् ॥ २३ ॥ शशिनि शनिसमेते लग्नगे सोपरागे क्षितिसुतवति रन्ध्रे नाशमोहुश्च मातुः । स्थितवति सबुधे वा सार्कजे वा तथार्के भवति मरणमुक्तं पूर्व्ववच्छत्रुजातम् ॥ २४ ॥ लग्नाष्टनवमान्तस्थे सोमारार्कशनैश्चरैः । अदृष्टैर्गुरुणा शक्तिमता मृत्युमिहादिशेत् ॥ २५ ॥ क्षीणेन्दुल्लग्नपुत्रन्स कामधर्मसमाश्रयः । नाशकृद्वलिभिर्जीवसितज्ञैरयुतेक्षितः ॥ २६ ॥ यस्मिसंस्थो जननसमये शक्तिमान्योगकर्ता तत्र प्राप्ते शिशिरकिरणे पापदृष्टे समन्तात् । मृत्युर्वाच्यश्शीशाने वालेनि स्वर्क्षगे वापि धीरै । र्घन्धुच्छेदादिभिरपहतः स्यादरिष्टोपघाते ||२७|| विवर्द्धमानः शशभृत् समस्त ग्रैहःसुदृष्टो विनिहन्त्यरिष्टम् । चन्द्रात्तु षष्टाष्टमसप्तमस्थाः सौम्याश्च रक्षन्ति 'शिशुन विपाषा: २८ होरागतो जन्मपतिः समस्तै निरीक्षितः पापवलं क्षिणोति । चन्द्रः शुभस्वोच्चगतश्च मित्रवर्गस्थितो वा न करोसरिष्टम २९ होरागतो गुरुरुदंशुरुदात्तशक्ति रेकोपि हन्ति दुरितं शुभदृष्टमूर्त्तिः । राहुस्तथैव कथितत्रिपडायसंस्थः सौम्येक्षितोऽपि शुभखेचरसङ्गतोऽपि ॥३०॥ १ यमातः । २ इन्द्रच्छेदादिभिरुपहतः । ३ शिशुः । ४ रुदाशुरु ।