पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सौम्याच षष्टाष्टमगा बलाढ्यैः पापैस्सृदृष्टाःसदवीक्षिताश्च । मासेन मृत्युं जनयन्ति होरा घिपाश्च पापाप जितास्तथास्ते ॥ ११ ॥ अष्टमं शशिनःकूरसहितं मरणावहम् । लग्ने पापयुते चन्द्रः पञ्चमस्थश्च दोषदः ।।१२।। द्वादशस्थानगश्चन्द्रः सूर्य्यः सूर्यसुतः क्रमात् । मातुः पितुश्च सूनोश्च व्याधिं वहति भूरिशः ॥ १३ ॥ भाग्यपूष्याप्यचित्राणां पादेषु च यथाक्रमम् । पितुर्मातुश्चतद्भ्रातु बलस्य च मृतिर्भवेत् ॥ १४ ॥ पापग्रहयुतश्चद्रो ब्रजेत्तत्तवं शुभेतरम् । मातुर्मरणमाचष्टे पितुश्च दिनकृत्तथा ॥ १५ ॥ • गर्भ निहन्ति शीतांशुर्मध्यगो बैक्रमन्दयोः । संपापदृष्टो होरास्थस्तादृशो जननीमपि ॥ १६ ॥ सन्ध्यायां चन्द्रहोरायां क्रूरराश्यन्तसविनः । मृत्युदाश्चन्द्रपापाश्च प्रत्येकं केन्द्रसेविनः ॥ १७ ॥ वक्रस्य पूर्वार्धगताश्चपापाः शुभाश्च पार्श्वर्धनिसेविनश्चेत् । लग्ने कुलीरेऽपि च वृश्चिके वा जातस्य मृत्युने चिरेण दृष्टः १८ क्षीणे शशाङ्के लग्नस्थे पापाश्च केन्द्रसेविनः | अष्टमे वाभवेयुस्ते तदाजातो न जीवीत ॥१९॥ क्रूरग्रहयुतश्चन्द्रो व्ययोदयकलव्रगः । नष्टस द्वीक्षणः केन्द्रैः शुभवर्जेरच मृत्युदः ॥ २० ॥ चतुराशिगतोवेन्दुः सप्तमस्थोऽपि वाभवेत् । क्रूरयोर्मध्ययातश्चेत् तदापि मरणमदः ॥ २१ ॥ १ शुभेतरात् । २ चक्रचन्द्रयोः ॥ १०