पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाववृद्धिकराः सौम्याः षष्ठादन्यत्र सर्व्वतः । अष्टमस्थाश्च कुर्वन्ति नरास्ते वृद्धिमायुषः ॥ २५ ॥ विवस्वानल्पचिकुरः पैतृकः समरप्रियः | रक्तश्यामश्च पिङ्गाक्षश्चतुरखोऽस्थिसारवान् ॥ २६ ॥ भास्वतः परमोश्चन्तु मेषस्य दशमोशकः । तुलायाः दशमोभागः परमंनीचमिष्यते ॥ २७ ॥ सिंहेविंशतिरंशाः स्यु स्त्रिकोणमपरे गृहम् । यात्रुमन्दसितौ मध्यस्सौम्यो मित्राणि वापरे ॥ २८ ॥ पुरुषाणाञ्च राज्ञश्च विवस्वानधिपःस्मृतः । ताम्रवर्णः स्वयं वांतमस्थतापसदर्शनः ॥ २९ ॥ रक्ताधिकः श्लेष्ममरुच्छरीरी ज्ञानी दयावांश्चपलः क्रियासु । प्रांशुः कृशः कोमलवाक् शुभाक्षः कलानिधिमिंत्रजनप्रियश्च ॥ ३० ॥ चन्द्रस्य परमोच्चन्तु द्वितीयो वृषभेशकः । त्रिकोणं परमोनीचं तृतीयोवृश्चिकेशकः ॥ ३१ ॥ चन्द्रस्य सुहृदौ सूर्यबुधौ शेषास्तु मध्यमाः । स्वेतगुर्युवती वैश्यः कापालिकमहेश्वरः ॥ ३२ ॥ नियं युवा काञ्चनवर्णदृष्टि: पित्तात्मकौऽनेक मतिश्च हिंस्रः । दुर्द्धषर्ण: पद्मदलाग्रवर्णो मज्जाधिकोवा मनकश्च भौमः ॥ ३३ ॥ उच्च मकरराशेः स्यादष्टविंशोशकः परम् । तावदेवांशको नींचः परमः कर्कटे भवेत् ॥ ३४ ॥ १ वातप्रस्थ । २ परतो । ३ नेकमितिश्च ।