पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमे यायिनो याति यां दिशां हन्ति तद्भवान् ॥ ४ ॥ देवालयेषु पतितः तद्भक्तानुपपीडयेत् । पतितो राजसदने विधत्ते राष्ट्रशून्यताम् ॥ ५॥ निर्घातपातः फलति चन्द्रनक्षत्रजातिषु । मासषट्केन वा नोचेद्वत्सरत्रितये न वा ॥ ६ ॥ इतिनिर्घातपातनिर्णयः । उल्काद्विजादिवर्णघ्नी सङ्ग्रासृगस्वर्णवाणभा । तथैव रुक्षानिर्दिष्टा पतिता चोत्तरादिषु ॥ १ ॥ अनुषङ्गाम्बरे यस्याश्चिरं तिष्ठति दण्डवत् । घृतेत्र तन्तुभिः खेया चोह्यते सा च राजनुत् ॥ २ ॥ लोकसंक्षयमाधत्ते शिखिपिअस्वरुपिणी । सर्पवत् सर्पीत या च सा स्त्रीणामहिता भवेत् ॥ ३ ॥ छत्रवन्मण्डलाकारा निहन्ति च पुरोहितम् । साधत्ते राष्ट्रशून्यत्वं या स्थिता वंशगुल्मवत् ॥ ४ ॥ या व्यालस्करसहकसहीवस्फुलिङ्गा | खण्डा च निस्वनवतो जगतः शुभा सा ॥ उल्का यतो ऽभिभवति स्वपुरं बलं वा । भूपस्य तस्य तत एव भयं वदन्ति ॥ ५ ॥ ७ल्का फलति सप्ताहादर्पमात्रणे वा पुनः । चन्दाधिष्टितनक्षत्रवर्गे वा दृष्टजन्तुषु ॥ ६ ॥ • इतिउल्कानिर्णयः | १ यस्याम् । २ चण्डाश्च ।