पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिसेन विभज्यातमश्विन्यादिक्रमादिशेत् । स्थानं तत्सप्तसङ्ख्यानां मुनीनां त्रिदिवौकसाम् ॥ २ ॥ माच्यां मरीचिस्तदनु वशिष्टश्वाङ्गिरास्ततः । अत्रिरस्मात्युलस्सः स्यादतः पुलहनामवान् || क्रतुरस्मात्परश्चेति क्रमशो मुनयः स्थिताः ॥ ३ ॥ उत्पातपीडिता एते स्ववर्ग पीडयन्ति हि । पुष्णन्ति वर्गविमलाः सुस्निग्धाःकिरणोज्वलाः ॥ ४ ॥ प्रथमस्य मुनेवेर्गे सिद्धमन्त्रौषधाञ्जनाः । द्वितीयस्य सकाम्बोजाः धनिनश्च तपोवनाः ॥ ५ ॥ तीयस्य द्विजन्मानः पण्डिताः कवयो जनाः । चतुर्थस्य पयोवाहा गावश्च वनिता जनाः ॥ ६ ॥ पञ्चमस्य भुजङ्गाश्च पिशाचा राक्षस स्तथा । षष्ठस्य फलमूलानि चरमस्य श्रुतिवलाः ॥ ७॥ मरीचिमासमात्रेण स्त्रवर्गे पाचयेत् फलम् । मासवृद्धिक्रमादन्ये स्ववर्गे फलपाचकाः ॥ ८ ॥ इति सप्तमुनिचारनिर्णयः । अगस्यस्योदये वाक्यं कविवद्भावको भवेत् । अस्यैवास्तमये वाक्यं स्वेर्मङ्गलमिष्यते ॥ १ ॥ विषुवत्यङ्गुलेनादौ लब्धमृक्षादिकं फलम् । शोधयेदुदये वाक्यादस्तवाक्ये तु योजयेत् ॥ २ ॥ यदा भानोः स्फुटन्तत्तत् सदृशत्वम्मपद्यते । १ कुलपांसनाजलधियोमूर्खाश्रगालासनाः | २ वत्सरात् । ३ संकीर्ति । ४ मानोदारम् । ५ सकलकस्चलपङ्कविषापहः । ८