पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्कटे प्रकटो राहुः शाकपञ्चालकौरवान् | निहन्त्याभीरमल्लांश्च कुरुते चान्नसंक्षयम् ॥ ४ ॥ सिंहेच सिंहिकासूनुराविर्भूतो वनोद्भवान् । पुलिन्दान् राजदेशीयान् राज्ञश्च परिपीडयेत् ॥ ५ ॥ हन्यात कन्याश्रितो राहुः कविलेखकगायकान् । अस्मकत्रिपुरान्तर्गान सस्यानि च विशोषितः ॥ ६ ॥ राहुस्तुलायां संदृष्टो दशार्णान भारुकच्छजान् । अवन्तिमिन्धुजान् हन्ति वणिजश्च परान्सजानू ॥ ८ ॥ राहुरष्ट्रमभे दृष्ट: विनष्टविपजीविनः । मद्रोदुम्बरचोलीयान्नृयांश्चायुधशालिनः ॥ ८ ॥ धनुषि ग्रहणे वृत्ते पाञ्चालांश्च विदेहजान् । सायुधा वाजिनोमात्यानू वणिग्वैद्यांश्च पीडयेत् ॥ ९ ॥ वीक्षितो मकरे राहुर्मन्त्रिवर्गानि पीडयेत् । मन्त्रौषधेषु कुशलान् झपजातिञ्च सायुधान् ॥ १० ॥ उपरक्तोघंटे दृष्टः हन्यात् सिंहपुरोद्भवान् | बर्बरांस्तस्करान भारवाहांश्च गिरिनिर्मितान् ॥ ११ ॥ प्रकाशश्चरमे राशौ राहुः सागरवारिजम् । पीडयेद् द्रव्यजातिञ्च प्राज्ञांश्चायुधशालिनः ॥ १२ ॥ अपसव्येन चलनं राहोस्तस्करभीतिकृत् । सव्येन चलनं भूरि वारिदं क्षेमकारणम् ॥ १३ ॥ सव्येन चलनं राहोश्चौरेभ्यो भयमावहेत् । अपसव्येन चलनं क्षेमकृद् भूरिवारिदम् ॥ १४ ॥ स्पर्शे धूमोदले कृष्ण: सर्व्वग्रासे तु पिङ्गलः । कृष्णे ताम्रप्रभाचापे मोक्षेप्येतत्क्रमो भवेत् ॥ १५ ॥ अयं विभेदो वर्णस्य सम्भविष्णुनिसर्गतः ।