पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भास्वतः स्पर्शतः पश्चात् विमोक्षः पूर्व्वतो भवत् । चन्द्रस्पर्शी भवेत् माच्यां विमोक्षः पश्चिमे भवेत् ।। ४६ ।। समार्कादिधिको राहुर्ग्रसत्युत्तरकोणगः । ऊनो दक्षिणकोणस्थः केतुस्तूत्कविलोमतः ॥ ४७ ॥ सोमश्चेत् पश्चिमस्थायी राहुग्रसति भास्करम् । भानुग्रासविलोमेन सोमग्रासं विनिर्दिशेत् ॥ ४८ ॥ सौम्यकर्णाभूतो राहुर्बामवृत्तेन गच्छति । याम्यकर्णाश्रितो योयं दक्षिणादृत्ततो व्रजेत् ।। ४९ ।। हेमभङ्गाबिलिप्तादि विम्बमानं विवस्वतः । योगकाल: शशाङ्कस्य भवेद्राहोर्न्ननोनदी ।। ५० ।। वृत्तीकृस लिखेत्पूर्वी भानोविम्बदलं ततः । स्थापयेत् स्फुटविक्षेपं पातनिस्टितदिङ्मुखे || ५१ ।। तदग्रे पूर्णचन्द्रस्य वृत्ति सूत्रेण लिख्यते । यावद् ग्रसति राहुस्तं तावद्वानुमीयते ॥ ५२ ॥ विषुवद्रयङ्गुले वर्गों कृते ज्ञानभुजायसः । क्षिप्त्वा मूलमिहोत्पाद्य भागहारं तमुद्दिशेत् || ५३ ॥ नागिना पार्थिवामासं भक्त्वा लब्धकलाफलम् । विषुवद्रयङ्गुलं क्षुण्णं भागहारेण भाजितम् || ५४ ॥ ततो लब्धकलादिः स्यादवज्यानाम दक्षिणा । एवं संक्षेपमार्गेण सूर्य्यग्रहणमादिशेत् ॥ ५५ ॥ इति सूर्य्योपरागनिर्णयः ।


पौर्णमासीनिशापर्ध्वपरिच्छेदस्समीपता । अङ्गत्रयमिदंदृष्ट्वा सोमग्रासं निरूपयेत् ।। १ ।।