पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभज्या धनकान्तारैल्लब्धा लिप्तिविलिप्तिका ॥ ३३ ॥ नतिविक्षेप एष स्यान्मध्यलग्नार्कगोलवान् । तुल्यादिनातिविक्षेपः शशिविक्षेपयोजितः ॥ ३४ ॥ भिन्नगोलस्तु विज्ञेयः परस्परविशोधितः । एवं युक्तो विशुद्धो वा स्फुटविक्षेप इष्यते ॥ ३५ ॥ यदासौ स्फुटविक्षेपः संयोगार्द्धेन चेत् समः । अधिको वा भवेत्तस्मात्तदा नोपरज्यति || ३६ ॥ संयोगद्धञ्च विशेषमुभयं वर्गयेत् पृथक् । संयोगवर्गाद विशेष वर्गे हित्वा तदन्तरे ॥ ३७ ॥ मूलमुखादयेत्तस्मानीवारमथ शोधयेत् । विवरे सनसा क्षुणे धनलब्धस्तु भाजकः ॥ ३८ ॥ तेन मूले हृते लब्धं स्थिसार्द्धघटिकादिकम् । लम्बपर्थ्यस्त्रिधास्थाप्यमादौ स्थिसर्द्धमुन्नयेत् ॥ ३९ ॥ चरमेयोजयेन्मध्ये न दद्यान्न च शोधयेत् । प्रथमः स्पर्शकालः स्यात्तृतीयं मोक्ष इष्यते ॥ ४० ॥ ग्रासकालो भवेन्मध्यो यथा रूपमवस्थितः । बिम्बार्द्धद्रयमन्योन्यं विश्लिष्यपुववर्गयेत् ॥ ४१ ॥ ततो विक्षेपवर्गश्चेत् शोधनञ्च विमर्द्धनम् । शोध्यश्चेव शोधयित्वातः शेषे मूलञ्च साधयेत् ॥ ४२ ॥ पूर्वोक्तभागहारेण तत्र मूले विभाजिते । लब्धा नाडी विनाडी च विमद्यार्धमितीष्यते ॥ ४३ ॥ ग्रासकाले च मोक्षे च विमर्थार्द्ध विनिक्षिपेत् । आप्यायनं वाहिबिस्वाद्विमर्दानामकल्पते ॥ ४४ ॥ अशोध्ये पवेलिसाभ्यः स्थिसर्धेनद्रयान्तरम् । नक्कंदिवा च दिनकचन्द्रयोर्मासनाडिका ॥ ४५ ॥