पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैदूर्यकान्तिविमलः शुभदः प्रजानां । बाणातसोकुसुमवर्णनिभः प्रशस्तः । यञ्चापि वर्णमुपगच्छति तत्सवर्ण सूर्य्यात्मजः क्षपयतीति मुनिमवादः ॥ ३३ ॥ इति शनैश्चरचरितं नामाष्टमोऽध्यायः । नवमोऽध्यायः । -- अथराहोश्चरितं समासेन प्रकाश्यते । अर्थः फलममुष्य स्यात् प्रमागं क्षयतीर्थकः ॥ १ ॥ ऋणयाब्दे विलितानां मधुको भागहारकः । ऋक्षी मण्डलं सकत्वा स्फुटमेतस्य निर्दिशेत् ॥ २ ॥ मण्डलार्द्धमिहक्षिप्त्वास्फुटं केतोश्च साधयेत् । मड्येष्वर्केन्दुतुङ्गानां तमसश्च स्फुटे क्रमात् ॥ ३ ॥ तोयञ्च प्रबलं छायारूपधाराञ्जनं सृजेत् । अथ वा बीजकर्मैव पूर्वोक्तम्फलमिष्यते ॥ ४ ॥ अमावस्यादिवापर्वपरिच्छेदः समीपगः । अङ्गत्रयमिदं दृष्ट्वा रविग्रासं विचिन्तयेत् ॥ ५ ॥ भानुनेन्दुं कलीकृस पूर्व्ववत् पर्व्व साधयेत् | अवशेषं परिज्ञाय ततो लिप्ताद्यमाहरेत् ॥ ६ ॥ प्रतिपत्पवैणोरन्यतरसम्बन्धितद्भवेत् । ततो गोक्षुण्णतो नाभिप्राप्तमन्तरलिप्तिका ॥ ७ ॥ मथमान्तरलिप्तादि शोधयेद्भास्करस्फुडात् । एतञ्च तिथिशेषञ्च शशिनस्तु त्रिशोधयेत् ॥ ८ ॥ ७