पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्रपादञ्च चक्रार्द्ध दध्याश्चन्द्रोच्चपातयोः । यथास्वं निक्षिपेत्तत्र ध्रुवाणि च यथाक्रमम् ॥ १३ ॥ चन्द्रात्तत्तुङ्गभौमज्ञ जीवशुक्रार्किराहुषु । ध्रुवाणि युगमानेन प्रक्षुण्णयुगभुक्तयः ॥ १४ ॥ तण्डुललामी । लीन नैरः स्याद् । भैरवपूजा । कोशलराज्ञः । भीरुररन्धः। शौण्डगतीनां । ज्ञानरयाब्दे । कान्तिपताका|॥ १५ भीरुरनागोरुद्रयमः स्याद् दैवजराजावंशगजानाम् । वारिचराब्धिर्भूसुलभोयं चण्डसमाजे भिन्ननतोजिः । सत्रुटिकास्ते भूयुग भोगाः + भेनाभ्यस्ते स्वदेशक्षितिपरिधिमतो भाजकाकर्णलब्ध- स्तेन स्वभ्यस्तमुक्तिर्गणितहृदयविद् भाजयित्वा विलिप्ताम् । या रेखामेरुलङ्कान्तरमृजुपतिता तत्र पूर्व्वापरा: शोध्यः योज्यं क्रमेण प्रणयति विहिते मध्य मेखे चराणाम् १७ सुमेरु हिमवान् वत्स पुर्य्यवन्ति चकोरकः । वायुः खरच लङ्केति रेखामध्यगताउँहि ॥ १८ ॥ देशान्तरविधि हित्वा केचित्वीजक्रियां जगुः । कल्याब्दे गात्रतुङ्गोने नानादीपा हतं तथा ॥ १९ ॥ यथा स्वम्भाजकैः प्राप्तं हन्याद् वीजफलम्भवेत् । भवेत् सुधामयूखस्य भाजको मम शाषणम् ॥ २० ॥ अस्य तुङ्गे ध्रुवोच्चाटा क्षमापुत्रस्य सत्कविः । बुधशीघ्रे जितामासाः ससुरेड्थेननोनटः ॥ २१ ॥ भृगुशीघे धरारूपं शेनेः याज्ञाविधुर्ननु । तमसो धूर्त्तधूपश्चेसमीभिर्भादिकं हरेत् ॥ २२ ॥ १ चन्द्रातन्तुङ्ग ॥ २ नरा ॥ ३ मिछा ॥ ४ चथा ॥ ५ शतायोज्ञा । ६ श्वेदमीभिः । + मस्य तु अन्त्यचरणसुपलब्धेषु सर्व्वपुस्तकेषु ऊनमेव दृश्यते ॥