पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्द्धयेत् सुखैः । संहस तत् प्रथममत्र विभावयामि सङ्ख्यानसंस्करणनिर्णययुक्तियुक्तम् ॥ ४ ॥ अब्दं द्विधाकेलय्याऽप्तमूर्ध्नस्थं धीरनागैरेघोन्यस्तं नदीतीर्थेन भाजयेत् ॥ ५ ॥ लब्धं दिनादिकं मूर्ध्नि दत्वा तत्तत्परादिकम् । हित्वा कोमलनामानि मासवाक्यानि पूरयेत् ॥ ६ ॥ विशुद्धनिधिपातः । विमर्द्दनपुरखी । कुशान्धयखरोरुः । वशीतिलकरुद्रः । शिवाब्धिबुधपुत्री । नेयाम्बुनोपुयात्रा । नयाम्बुनवपूरः । दिवानवरिपुस्त्री | दशाङ्गनरकारी । प्रवीर- गुरुयन्त्रः । विवासनविकारी | मृगाकुलीतपोखी । वेरजगृ- हादितः प्रभृति मासवाक्यानि || नाभिना सर्व्वमाहस नीचाप्तमुपरिक्षिपत् । लीनेनोर्ध्वस्थमाहस घटिकादिश्च साधयेत् ॥ ७ ॥ दिनानि दद्यांच्छुकादीन्याकलोयमहर्गणात् । ततो धीदण्डनेयश्रीलब्धं खण्डयुगं भवेत् ॥ ८ ॥ शिष्टमिष्टदिनम्प्रोक्तं युगोदयदिनादिमम् । युगोदयदिनेशः स्याद् युगमानेन वा इते ॥ ९ ॥ गुणकार: फलं नाम भागहारं प्रमाणकम् । माप्तलाभो भवेदब्दसंस्कारे तु यथाह्रयम् ॥ १० ॥ दिनराशिर्भवेदिच्छा हन्यात्तम्फलराशिना । विभाजयेत् प्रमाणेन लाभताराकलादिकम् ॥ ११ ॥ वर्त्तमानयुगाब्दानि भागहारैविभाजयेत् । लब्धं धनमृणं वा स्याद् ग्रहाणां स्वस्वमध्यमे ॥ १२ ॥ १ कलय्यात ॥ २ रसो ॥ ३ कुशान्वषखरोरुः ॥ ४ नरा ॥ ५ नयाल || ६ नाईना सर्व्वमाइस्य || ७ नीवाप्त ||