पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जनयतिजगदिष्टं क्षत्रियानां जयञ्च ॥ ३६॥ इति शुक्रचरितं नाम सप्तमोऽध्यायः । अष्टमोऽध्यायः । 0 शनैश्चरस्य चरितं समासेनाथ वक्ष्यते । आत्रेयः फलमेतस्य प्रमाणाद् ध्रुवदासवत् ॥ १ ॥ लिप्तिकानाम्रणायाब्दे भागहार: सुबोधवान् । रविच्छायाचवोत्तुङ्गभौमवत् सर्व्वमिष्यते ॥ २ ॥ रविज ध्रुवका वनमुद्दशमः । हिमस ञ्जितवान् वरग मिययौ ॥ ३ ॥ J शनेराद्यन्तपादज्या चोलाङ्गाणां शशाङ्गणा | पीनाङ्गणा जगद्रना चातको मदनुत् क्रमात् ॥ ४ ॥ शनिमध्यस्तु नलवदभटवत् सकुलाननम् | कर्पूरोधनिनामस्मादुपान्तगुणमुसजेत् ॥ ५ ॥ नेमिनोमन्तरं वाक्यं नीतिर्वक्रगुणःशनेः । स्फुटभोगतिशीघ्रस्य कालान्नैवातिरिच्यते ॥ ६ ॥ ॥ चतुर्थस्फुटकेन्द्रश्चेद्विष्णुदेवजनो यदा । केन्द्रे दिनञ्च गुरुवद्वकारम्मीतदाशीनः ॥ ७ ॥ चतुर्थस्फुटकेन्द्रश्चेत्प्रमत्तापजयोयदा । तिमिरं वादिनं केन्द्रे तदासौ विनिवर्त्तते ॥ ८ ॥ भरणीभाग्यहस्ताश्रवणनिलगः शनिः । यदि स्निग्योभवेदभूरिवारिभिस्तापयेन्महीम् ॥ ९ ॥