पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवन्तिमत्स्यकाश्मीरमनुजान्नपिपडियेत् ॥ १५ ॥ वस्वादिषट्के विचरत् धनगोकुलसकुलम् । अनल्पधान्यं भुवनं कुरुते सभयं कचित् ॥ १६ ॥ रोहिणी शकटे भिन्ने शुक्रेण धरणी तदा । केशाशिवलान् धत्ते कापालिकमित्रद्रुतम् ॥ १७ ॥ सौम्यतारागतः शुक्रः कुरुते रससंक्षयम् । आर्द्रागितः सलिलकृत् सकोशलकलिङ्गहा ॥ १८ ॥ पुनर्वसुस्थितः शुक्रो वैदर्भाश्मकपीडकः । पुष्यस्थितो वारिकरः कुन्तराणां विमर्दकः ॥ १९ ॥ भुजङ्गसङ्गतः शुक्रो भुजङ्गभयमावहेत् । मघां भिन्दन्महामात्थदोष कृरिवारिदः ॥ २० ॥ भाग्येपुलिन्दमध्वंसी भुवं पुष्णाति चारिभिः । आर्य्यमस्थोम्बुकृद्धन्ति कुरुपन्चालजाङ्गलान् ॥ २१ ॥ हस्तस्थश्चिवकारनो निरुणद्धिजलानि च । चित्रास्थे शोभनावृष्टिं दद्यात् पीडाण्डसम्भवा ॥ २२ ॥ स्वातौदूत वणिनाविकपीडादृष्टिश्च भूयसी । विशाखास्थे सभागृष्टिर्वणिजाञ्चभवम्भवेत् ॥ २३ ॥ मिवस्थः क्षत्रनाशाय ज्येष्टायां राजमुख्यहा । खूले मूलभिषग्पीडा दुर्वृष्टिर्भवयेपिच ॥ २४ ॥ आप्ये वारिभवं हन्ति विश्वेशे व्याधिमावहेत् । श्रवणे श्रुतिपीडाकूहमुस्थो देवलान्तकः ॥ २५ ॥ वारुणे शौण्डिकान ध्वंसी स्थितः शुक्रोजपादके । घातको द्यूतवृत्तीनां पञ्चालानान्च वारिदः ॥ २६ ॥ अहिर्बुध्ने लता मूलफलमध्वंसकारकः । रेवसां यायिनो हन्यादश्विन्यामश्वपालकान् ॥ २७ ॥