पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शोभकृच्छुभकृत क्रोधी विश्वावसुः पराभवः । एतानि पञ्चवर्षाणि युगेस्युर्विश्वदैवते || ४९ ॥ पूर्वापरौ प्रीतिकरौ तृतीयो बहुदोषदः । द्विजभागोभयदावन्यौ शस्त्राग्निर्व्याधिकोपदः ॥ ५० ॥ ल्यवङ्गः कीलकः सौम्यस्तथा साधारणाह्वयः । रोधकृच्चति पञ्चैताः शरदः शशिनो युगे ॥ ५१ ॥ आद्यःकष्टोन्तिमो मध्यस्तुरियं से तिरम्बुदः । अपरौ शुभदौ रोगभयदौ नातिमृत्युदौ ॥ ५२ ॥ परिधावी प्रमादी वा नन्दनोराक्षसोनलः । एतानि पञ्चवर्षाणि युगे इन्द्रामिदैवते ॥ ५३ ॥ आद्योमध्यमदेशघ्नो नृपहाल्पजलप्रदः । अलसः साग्निकोपश्च द्वितीयो रोगमृत्युदः ॥ ५४ ॥ तृतीयस्तुष्टिमाधत्ते तुरीयः क्षयकारकः । ग्रीष्मधान्यकरः किन्तु पञ्चमोऽग्निभयप्रदः ॥ ५५ ॥ पिङ्गलः कालयुक्तश्च सिद्धार्थोरौद्रदुर्मती । एतान्येकादशेऽब्दानि तत्राद्योबहुदृष्टिदः ॥ ५६ ।। द्वितीयं बहुदोषञ्च तृतीयं शोभनं स्मृतम् । तुरीयं क्षयकृन्मध्यदृष्टिदः पञ्चमं भवेत् ॥ ५७ ॥ दुन्दुभिश्चततोद्गारी रक्ताक्षः क्रोध एव च । विरोधश्चेति पञ्चैते भाग्ये संवत्सराः युगे ॥ ५८ ॥ आग्रः सस्यकृदन्यस्तु नृपघोविषमाम्बुदः । तृतीयोदष्ट्रिभयकृत्तुरीयं क्रोशवर्द्धनम् ॥ ५० ।। अन्तिमः कुरुते राष्ट्रं शून्यतां बहुयुद्धताम् | एवं शुभाशुभं विद्यात् पटिव सिमुद्भवम् ।। ६० ।। इति षष्टिसंवत्सरनिर्णयः । -:0:0: ६