पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्द्रादिपञ्चतारामु विचरेद्रोहिणीसुतः । शस्त्रक्षुद्रोगदुष्टेभयं धत्ते वपुष्मताम् ॥ १६ ॥ हस्तादिशकपर्यन्तमुत्पीड्य विचारतू बुधः गवामशुभकृत्स्नेह रसाधनाञ्च वर्द्धयेत् ॥ १७ ॥ मृनन् वारुणमूलाशिवेरव तींचन्द्रनन्दनः । भिषकूपण्यतुरङ्गानां जलजानाञ्च घातकः ॥ १८ ॥ दूतवालकवानाञ्च पण्डहास्यविदामापे । शिलोचयजुपामम्बुजन्मिनाञ्च मुखोत्तरम् ॥ १९ ॥ गान्धवनृसलेख्य स्त्र गणितादिविदास्मियः । वर्त्तते दण्डनीतिश्च समये रोहिणीभुवः ॥ २० ॥ इति वर्षाधिपतिफलम् ।

०:-

गम्भीरासरयूश्च लोहितसरित्पद्मावनीलाचलो । गोमन्तः शठशुत्रमागधजना: दुङ्गितज्ञादयः चित्रज्ञाः लिपिशिल्पकर्म्मनिपुणां मन्बेन्द्र जालादिषु पौषस्याज्यतिलादिवीजमखिलं सौम्यस्य वर्गे भवेत् ॥१॥ सौम्यस्यवारस्तद्वर्गे तदार्शविषयेषु च । आदर्शनात मासानां त्रयेणापि विपच्यते ॥ २ ॥ हेमकान्तिरथ वा शुकवर्णः सण्यकेन मणिना सदृशो वा । स्निग्धमूतिरलघुश्च विधत्ते सर्व्वलोकविजयं शशिपुत्रः ॥ ३ ॥ इति बुधचरितनाम पञ्चमोध्यायः । - 20: पष्ठोऽध्यायः ।

  • ०*:

अथ जीवस्य चरितं संक्षेपेण मणीयते ।