पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३५ ) शशिजा ध्रुवका वरगश्चमती । विजयं सय गतिनुत् खरनुतो ॥ ३ ॥ बुधाग्रन्तस्तदाक न्या सोमो नान्ये नदीधनतो । क्रूरोधानन्तरोर्थज्ञो नदीमानमिति क्रमात् ॥ ४ ॥ बुधमध्यादधोगौरी युधि सर्पो नदीनृपः । धम्मभानुर्वने नूनं सलिलान्ते द्वयन्यजेत् ॥ ५ ॥ आशयोरुभयोरेव बुधस्यास्तोदयौ मतौ । एतस्यान्तरवाक्यञ्च नृपमौलिरितिस्थितम् ॥ ६ ॥ उदयोस्तमयोर्वास्य यदा स्यात् पश्चिमाम्बरे। सप्तमोदयवाक्येन संस्कृतेन त्रिवर्द्धयेत् ॥ ७ ॥ यदा स्यात् पूर्व्वदग्भागे तदादयसंस्कृतम् । वाक्यन्ताधनराशिःस्या च्छेपः माग्वदिशः स्मृतः ॥ ८ ॥ अतिशीघ्रस्य भौमस्य स्फुटभोगविनाडिका । भिन्नासन्ततिरिच्येते वक्रज्यानयनम्भवेत् ॥ ९ ॥ द्वितीयस्फुटकेन्द्रश्चेत् सोमहारपटुर्यदा | धावनं केन्द्रचारो वा वक्रारम्भी तदा बुधः ॥ १० ॥ तृतीयस्फुटकेन्द्रेश्चेद्दशमी कार्त्तिकी यदा । अर्थः केन्द्रदिनं वापि तदासौ विनिवर्त्तते ॥ ११ ॥ नोत्पातरहितश्चान्द्रि रुदयत्युपितो यदि । अर्धस्य वृद्धिं हानि वा करोसग्न्यि निलाम्बुकृत् ॥ १२ ॥ श्रवणापाढवैशाखमघापौष्णषु चन्द्रजः । दृष्टो लोकस्य भगदं प्रोषितश्शोभनम्भवेत् ॥ १३ ॥ माघेश्वयुाजे दृश्येत कर्तिके वापिचन्द्रजः । चोराग्निशस्त्ररोगान् क्षुद्भयानि कुरुततदा ॥ १४ ॥ धनिष्ठाविश्वदेवेन्दुरोहिणीशवणेपुच । विमर्धविचरन सौम्यो रोगादृष्टिभयावहः ॥ १५ ॥