पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निष्पन्नान्यपि सस्यानि हरन्त्यविनयात् परे । भूपैनिस्वीकृतो लोको न सम्यक् परिपालयते ॥ १४ ॥ व्यथन्ते व्याधयो भूयो भुजङ्गाश्च विपोलवणाः ॥ सम्बत्सरे च मासे च वारे च वसुधा भुवः ॥ १५ ॥ इति वर्षाधिपतिफलम् ॥ तापी शोणः पयोष्णी विदशपतिसरिद्गोमतीवेत्रवत्य | श्रोलानाशिक्यविन्ध्याक्षतिधरनिलयाः ये विदेहाश्चकाशी देशा: कोङ्कणाख्या मलयपरिसराः कुन्तलाः केरला वा मध्याः भूपाः कुमाराः सकटुकमखिलं सौगते चापि भौमे १ भौमस्य चारे तद्र्गे नक्षत्रविषयेषु च । मासेनवाष्टभिर्मासैर्विदधाति शुभाशुभम् ॥ २ ॥ विपुलविमलमूर्तिः किंशुकाशोंकवर्णः स्फुटरुचिरमयूखस्तप्तताम्रमभाभः । विचरति यदि मार्गञ्चोत्तरं मेदिनीज: शुभकृदवनिपानां हाईकृच्च मजानाम् ॥ ३ ॥ इति भौमचरितनाम चतुर्थोघ्यायः । पञ्चमोऽध्यायः । अथ मस्तूयते सोमपुवस्य चरितं लघु । अनुनीतिफलं तस्य प्रमाणं दिवसाधिपः ॥ १ ॥ कर्पूरो नीपद्धाब्दे धनलिप्ता विभाजकः । ध्रुवोचं रोहिणेयस्य शुभांशक इति स्मृतम् ॥ २ ॥