पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्ताष्टनवमर्क्षेषु वऋमुष्णं महीभुवः । उदयाद् वह्निवृत्तीनां पीडाकरमिदं मतम् ॥ १ ॥ वक्रमग्र मुखानां हि दशादर्क्षत्रयेपि च । उदयार्साद्रसान् हन्ति कुर्य्याद्रोगान् नवग्रहम् ॥ २ ॥ वक्रंत्रयोदशर्मादि द्वितयोव्याल उच्यते । सूर्योदयर्क्षाव्यालेभ्यो भगं धत्ते सुभिक्षताम् ॥ ३ ॥ वक्रं रक्ताननं पञ्च दशर्क्षात् पोडशादपि । तदा सुभिक्षासमयो मुखरोगश्च जायते ॥ ४ ॥ तत्खङ्गमुशलं सप्तदशादष्टादृशादपि । अदृष्टिशस्वदस्युभ्यः पीडां धत्ते भयो त्तरम् ॥ ५॥ भाग्यादिद्वितये दृष्टो विश्वे यदि निवर्त्तते । अस्तमायाति रोहिण्यां भौमत्रैलोक्यघातकः ॥ ६ ॥ श्रवणाभ्युदितः पुष्ये वक्रकद्वाजपीडकः । यत्रर्क्षेऽभ्युदितस्तत्र जातानू हन्ति जनानू कुजः ॥ ७ ॥ श्रवणादिस हस्तै कपादमूले मघासु च । रोहिण्याम्विविशास्त्रासु भौमचारोदयाहितः ॥ ८ ॥ उत्तरत्रितये मूलप्रजापसेन्द्रविष्णुपु । विचरक्षितिजो वारी वाहानासुपघातकृत् ॥ ९ ॥ मघानां यदि मध्येन निर्गच्छेल्लोहितस्तदा । विनश्येत् पाण्डुराज्यन्तु शस्त्रानादृष्टिभिर्भयम् ॥ १० ॥ भिन्दन् मधां विशाखां वा भौमो दुर्भिक्षकृन्मतः । भिनत्ति रोहिणीं यहा कुरुते मरकं नृणाम् ॥ ११ ॥ रोहिणीयाम्यगो भौमी दृष्टिमर्घञ्च नाशयेत् । धूमायमानः सशिखः पारियात्रान् विनाशयेत् ॥ १२ ॥ भयं सुमरुतो वह्निजृम्भं नो पश्यते इतः ॥ दृष्टिःकुवचिदेव स्यात् सस्यं कृष्यति नूतनम् ॥ १३ ॥ ५