पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३१ ) किञ्चिद्नान्तु विश्लिष्य लब्धमस्तमये कलाः ॥ ६ ॥ ज्ञीप्सुरस्तोदयं व्यक्तं ग्रहाद् भास्करमुत्यजेत् । शेषे विलिप्तिकामूर्ती नास्तो वाक्यं महीयसी ॥ ७ ॥ यदा तु वाक्यं देशीयस्तदार्कात् सप्तमस्य तु । राशेः संस्कृतवाक्येन ताडयित्वाथतम् पुनः ॥ ८ ॥ अनूनपादैविभजेत् ततो लब्धविनाडिकाः । समाश्वेत् पूर्व्ववाक्येन तदा यातोस्तमिष्यते ॥ ९ ॥ अर्कग्रहान्तरं कृत्वा विकलं वाक्यतस्यजेत् । शेषेगसन्तरेणाप्तं दिनादिकमुदेद्यतः ॥ १० ॥ उदयँद्रष्टुकामस्य स्फुटं भास्करतस्यजेत् । शेषे विलिप्तिकामूर्ती वाक्यादूने तु नोदितः ॥ ११ ॥ देश्यश्चेदुदितस्तत्तु यो राशिर्भास्कराश्रितः । तस्य संस्कृतवाक्येन ताडयित्वाथ पूर्व्ववत् ॥ १२ ॥ लब्धाः विनाडिकाः पूर्व्ववाक्यन सदृशाः यदि । तदादिगोचरो भौमस्तादृशौ घिषणासितौ ॥ १३ ॥ इति उदयास्तमयनिर्णयः । -pco मध्यमस्य च शुद्धस्य स्फुटस्य च यदन्तरम् । तदकृत्य संशोध्यमुभयोरधिकान्तयोः ॥ १ ॥ शुद्धञ्चलोञ्चतस्यक्त्वा शेषं कुर्य्याद्विलिप्तिकाम | ज्ञानमतापैराहस लब्धा ग्रहगतिर्भवेत् ॥ २ ॥ आद्या शीघ्रा परा मन्दा वक्रा नाम सतः परम् । अतिवक्रा नु वक्रा च षष्ठी चारगतिः क्रमाद ॥ ३॥ तृतीयस्फुटसंसिद्धौ पादश्चेत् प्रथमो भवेत् । तदाचारगति विद्याच्चतुर्थं चेत् पदम्भवेत् ॥ ४ ॥ वक्रारम्भं द्वितीयञ्चेदतिवक्रगतिं तथा ।