पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तामुच्चभोगतो हित्वा परिशेषेण ताडयेत् । तुरीयस्फुटसंसिद्धो वर्त्तमानगुणं पुनः ॥ १९ ॥ ऊर्णनाभेन तं हृत्वा फलन्तु ध्रुवभोगतः । आद्यन्तपादयोर्देयं शोध्यं मध्यमपादयोः ॥ ३० ॥ वर्त्तमानगुणस्त्वत्र यदि शोध्यं भविष्यति । अनाहृत्य तदा पादौ व्यवस्थां योजयेत् सदा ॥ २१ ॥ अशोध्यध्रुवभोगश्चेत् विश्लेपस्साम्प्रतं तदा । स्फुटभुक्तिरियं यद्वा स्फुटयोरन्तरम्भवेत् ॥ २२ ॥ अतीतमनतीतञ्च संङ्क्रान्तिञ्चार्कवद् वदेव । हृतास्फुटविलितासु ज्ञानपादेन राशयः ॥ २३ ॥ छेदतशशोधितं शेषं भुक्तेरल्पतरं यदि । तदा वक्रस्य सङ्क्रान्तिनांडिः माग्वाडघीयते ॥ २४ ॥ इति सङ्क्रान्तिनिर्णयः । ग्रहाः कुजादयः सूर्य्यस्फुटादभ्यधिकस्फुटाः । प्रतीच्यां दिशि दृश्यन्ते माच्यामूनस्फुटाः पुनः ॥ १ ॥ कुजोस्तमेति वारुण्यां पूर्व्वस्यामुदयस्थ । विद्यादन्तरवाक्यञ्च भौमस्य निधिशोभनम् ॥ २ ॥ उद्घस भौमतः सूर्य्य शेषंकुर्य्याद्विलिप्तिकाम् । सा चेन्महायसी वाक्याद ग्रहो नास्तमितो भवेत् ॥ ३ ॥ अल्पीयसी यदि भवेत् तदा यातोस्तमिष्यते । किञ्चिदना यदि भवेदस्तमायाति तहिने ॥ ४ ॥ हित्वा वाक्ये महीयसीस्य विवरेण विभाजयेत् । लब्धं दिवसनाड्यादि जानीयादस्तमेष्यति ॥ ५ ॥ वाक्यादल्पीयसीं हित्वा दिनादस्तस्य भाजितम् ।