पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ 8 ] कुहकावेश पिहितैः कर्णोपश्रुतिहेतुभिः । कृतादेशो न सर्व्वत्र प्रष्ठव्यो न स दैववित् || अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥ नक्षत्रसूचकोद्दिष्टमुपहास करोति यः । स वजत्यन्धतामिसँ सार्द्धमृक्षविड़म्विना || नगरद्वारलोष्टस्य यद्वत् स्यादुपयाचितम् । आदेशस्तत्वदज्ञानां यःसत्यः स विभाव्यते || सम्परया योजितादेशस्तद्विच्छिन्नकथाप्रियः | मत्तः शास्त्रैकदेशेन त्याज्यस्तादृग्महीक्षिता ॥ यस्तु सम्पग्विजानाति होरागणितसंहिताः । अभ्यर्थः स नरेन्द्रेण स्वीकर्तव्यो जयैषिणा || न तत् सहसूं करिणां वाजिनां वा चतुर्गुणम् । करोति देशकालज्ञो पदेको देवचिन्तकः || दुःस्वप्नदुर्वैिचिन्तितदुःप्रेक्षितदुष्कृतानि कर्माणि । क्षित्रं प्रयान्ति नाशं शशिनः श्रुत्वा भसंवादम् || न तथेच्छाते भूपतेः पिता जननी वा स्वजनोऽथवा सुहृत् । स्वयशोऽभिवृद्धये यथा हितमाप्तः सबलस्य दैववित् ॥” इत्थमस्मिन् ज्योतिःशास्त्रे कथङ्कारं स्वल्पेन समयेन अनायासेन नैपु- ण्यसाधनाय अल्पमतिर्मानवः समुद्योगं कुर्य्यात् । तथोक्तमार्ग्यविष्णुगुप्तेन । अप्पणवस्य पुरुषः प्रतरन् कदाचि दासादयेदनिकषेगवशेन पारम् । - नत्वस्य कालपुरुषाख्यमहार्णवस्य गच्छेत् कदाचिदनृषिर्मनसापि पारम् ||