पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३ ] आचार्य्यस्य सकाशाद् ग्रन्धतश्चार्थतश्च जानाति स वै संहितापारमो भवति । तदा तेन दिनकरादीनां ग्रहाणां चारप्रकृतिविकृतिप्रमाणवर्णकिरणयुति संस्थानास्तमयोदयमार्गमार्गान्तरबक्रानुवकर्क्षप्रहसमागमादिभिः फलानि सूचयितुं शक्यन्ते । ततो राजमहामात्यादिभिः प्रभुजनैरपि संमानितः पूजि - तश्च भवति दैवचिन्तकः । तथोक्तं गर्गेण महर्षिणा, । 1 "कृत्स्नाङ्गोपाङ्गकुशलं होरागणितनैष्टिकम् । यो न पूजयते राजा स नाशमुपगच्छति ॥ वनं समाश्रिता येऽपि निर्ममा निष्परिग्रहाः । अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् || अप्रदीपा यथा रात्रिरनादित्यं यथा नभः । तथा सांवत्सरो राजा भूमव्यन्वइवाध्वनि || मुहूर्त्त तिथिनक्षत्रमृतवश्चायने तथा । सवण्येवाकुलाने स्युर्न स्यात् सांवत्सरो यादे || तस्माद्राज्ञाभिगन्तव्यो विद्वान् सांवत्सरोऽग्रणीः । जयं पशः श्रियं भोगान् श्रेयश्च समभीष्मता ॥ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता | चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥ न सांवत्मरपाठी च नरकेषूपपद्यते । ब्रह्मलोकप्रतिष्ठाञ्च लभते दैवचिन्तकः || ग्रन्थतश्चार्थतश्चैतत् कुस्नं जानाति यो द्विजः । अग्रभुक् स भवेच्छ्राद्धे पूजितःपङ्किपाचनः म्लेच्छा हि यवनास्तेषु सम्यक शास्त्रमिदं स्थितम् । ऋषिवत्तेऽपि पूज्यन्ते किं पुनर्देवविद्विजः ॥ ३५