पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ २ ] वर्षीयैर्बहुभिज्योतिर्विद्भिः पण्डितैः प्रायः सर्वोत्कर्षतया सादरं परिगण्यन्ते तथा दैवविद्भिश्च || ज्योतिविदाभरणन्तु श्रीमता कालिदासेन महाकविवरेण कृतमिति केचिद् वदन्ति । मिस्तु ज्योतिःशास्त्रे पौकिशो रोमको वाशिष्ठः सौर: पैतामहश्चेति आदिमाः परमोत्कृष्टाः पञ्च सिद्धान्ता भवन्ति । पुरा किल सूर्य्यरुणसं- वादानुसारेण गंगादिषु मुनिषु एतच्छास्त्रविषयकं यज्ज्ञानं पुलिशेन महर्षिणा समुत्पादितं स पौकिशः सिद्धान्तो नाम । यद्वसिष्ठेन महर्षिणा स्वपुत्राय पराशराय दत्तं स वासिष्ठः सिद्धान्तो नाम । यत्तु सूर्येण मयाय दैव्याय प्रकाशितं स सौरः सिद्धान्तो नाम। यच्च ब्रह्मणा स्वपुत्राय वशिष्ठाय दत्तं स पैतामहः सिद्धान्तो नाम जातः । तथाचोक्तमरुणम्प्रति सूर्येण; "वैता- महञ्व सौरञ्च वासिष्टं पौकिशं तथा । रोमकञ्चेति गणितं पञ्चकं परमाद्भुतमिति । अतः पश्चात्तरात्कालिकैरन्यैः पण्डितैरपि कृतास्त- नामका नवीनाः सिद्धान्ता अपि सन्ति । साम्मत भारतवर्षे ऋषिप्रणी- तानामेव परमाद्भुतानां सिद्धान्तानां प्रमाणं कुर्व्वन्ति नापरेषाम् । तथापि वराहमिहिराचार्य्यकृतायां पञ्चसिद्धान्तिकायान्तु, – “पञ्चभ्यो द्वावाद्यौ व्याख्याती काटदेवेने " ति वचनालाटाचार्येणाऽपि पीलिशरोमको हो सिद्धान्तावेव स्वकृते सिद्धान्ते व्याख्यातौ तयोर्भगणादिषु बीजं दत्वा विस्तारितावेत्युक्तम् । अत्रेदमुच्यते लाटाचार्येण पैलिशरोमकी द्वे सिद्धान्ती स्वीकृत्य तयोवजादिविशेषं विधाय कृतोऽन्यः सिद्धान्तोऽपि स्यात् । अत एत्र ममेदं करणं सर्व्वजनस्वीकृतं भवेदिति मा पञ्चानां सिद्धान्तानां मतान्यवलम्ब्य वराहमिहिराचार्येण पञ्चसिद्धान्तिका रचित- तिभावः । तत्र कालनियमादयः श्रीसुधाकरद्विजन्मना कृतायां पञ्च- सिद्धान्तिकाप्रकाशिकायामुक्तानुसारेणावमन्तव्याः || - पतस्तु यः कश्चित् देवचिन्तको होरागणितादिकमेतत् कृत्स्नम्