पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६ ) रोहिणीमुत्तरेणेन्दुः दु: स्पृशन् याति यदा तदा । दृष्टयः शोभनाः किन्तु सोपसर्गा मजा भवेत् ॥ २ ॥ रोहिणीमस्पृशन्निन्दुरुत्तरेण वजेद् यदा | तदा च दृष्टिर्जगताश्शवञ्च वहु निर्द्दिशेत् ॥ ३ ॥ रोहिणीशकटारूढे चन्द्रे निःशरणो जनः । पीड्यमानोन्नपानार्थं शिशुभिः क्वापि गच्छति ।। ४ ।। पूर्वोदितस्य शशिनो रोहिणी यदि पृष्ठतः । चरेच्छुभं तदालोके स्त्रिययस्तु पुरुषानुगाः ॥ ५ ॥ पूर्वोदितायाः रोहिण्याः पृष्ठतो विचरन् शशी । कुरुते कामिनं लोकं ममदानां वशे स्थितम् ॥ ६ ॥ राहण्यां यदि शीतांशुराग्नेयीं दिशमाश्रयेत् । तत्रोपसर्गः सुलभो भस्मपावकसम्भवः ॥ ७ ॥ नैर्ऋसामाश्रिते सोमे गस्यानि निहतानि च । निचयं यन्ति वायव्यां मध्यमानि भवन्ति हि ॥ ८ ॥ यथेष्टानुदिशां चन्द्रे शोभना दृष्टिसम्पदः । अभिवृद्धिः तदार्घस्य शिवञ्च जगतो भवेत् ॥ ९ ॥ छादयेयदि बिम्बेन रोहिणी शकटं शशी । तदानराधिराजस्य विधावि वधं वधूः ॥ १० ॥ . रोहिणीसहितश्चन्द्रो धनच्छन्नाम्बरेयदि । न लक्ष्यते महाव्याविर्जलं स्यञ्च शोभनम् ॥ ११ ॥ उदकस्थो यदि पौरस्समेघः स्यं शुभं तथा । आग्नेय्यामग्निकोपश्च याम्ये शस्यक्षयो भवेत् || १२ || नैर्ऋसां मध्यमं शस्यं वारुण्यां दृष्टिकारणम् । वायव्यामधिका दृष्टिः सौम्यायां दृष्टिरुत्तमा ॥ १३ ॥ १ संस्थायाति यदा तदा ।