पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५ ) श्रेष्ठान हन्ति नृपान् महेन्द्रगुरुणा शुक्रेण चाल्पान नृपान् शुक्ले याप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमः ॥१४॥ इति समागमनिर्णयः । आपादमासे शशिनि स्वाखापाढमजापतीम् । माप्ते परीक्ष्य प्रसन्दम्ब्रूयाल्लोकेशुभाशुभम् ॥ १ ॥ स्वयातपाढा भेवत्तत्र मथमांशैः प्रवर्पणम् । सुदृष्टिकारणंतद्वितीये सस्यकीटकृत् ॥ २ ॥ तृतीये वृष्टिमा द्याय चतुर्थे सर्व्वसस्यकृत् । पञ्चमे तिलमुद्गानांश्लेष्मिकानाच वृद्धिदम् ॥ ३ ॥ षष्ठे शारदसस्थानामभिवृद्धिकरम्भवेत् । भक्तं दिनं प्रविष्टे तु वृष्टिरस्ति निरन्तरम् ॥ ४ ॥ स्वातियोगशिवायेन्दुरपां वत्ससमीपगः । अपां वत्सस्तु चित्रायां समसूत्रमुदस्थितः ॥ ५ ॥ इति स्वातियोगः । .000- आषादयोगे शशिनः सर्व्वबीजानि दैवविद । पृथक् पृथक् समान्येव तुलितान्यधिवासयेत् ॥ १ ॥ अधिकं यद्यदन्यत्तु तत्तदब्देभिवृद्धिभाक् । यद्वीजमल्पतां यान्ति तस्य हानि विनिर्दिशेत् ॥ २ ॥ इत्याषाढयोगः । प्राजापत्येन संयोगे तस्येन्र्दुदक्षिणस्थितः । नेदीयान् वा दवीयान् वा जगतामशुभावहम् ॥ १॥ -