पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६६ ) सुधारोहावरोहौ तु पार्श्वयोर्ध्यसयात् स्त्रियाम् | सुधायास्सप्तमे स्थाने कला क्ष्वेडस्य तिष्ठति ॥ २०३ ॥ आस्थेयत्रामृतमवयवे तस्य खुर्दाविपक्ष स्तस्मिन दष्टो यदि च गुलिको नापि न स्यादिवापत् । स्थाने यस्मिन*नहि विपकला मईनं तस्य कुर्य्यात् क्ष्वेडस्थोघ्नं वितरति मृति तक्षदंशश्शुभोऽपि ॥ २०४ ॥ क्ष्वेडे कण्ठगताम्बुदण्डिससुधं ध्यानोपभोगाङ्गले भुक्तञ्चेद्विषमप्युदग्रममृतञ्जयेत निर्दोपतः । अस्तन्नैव महर्निशं बलमनस्तेजोऽङ्गपुष्ट्यादिभाग जीवेद् दुःखजरापमृत्युपलितातङ्कादिमुक्तश्विरम् ॥२०५॥ गुह्यं यदा याति कला सुधाया वश्यन्न भोगंऽपि तदाधु याति । भोगे सुधास्थानविमईचुम्वोऽवश्याय शुक्रक्षरणाय च स्यात् २०६ स्थाने यस्मिन् सा सुधायाः कलास्थे तत्स्थान प्राणानू सन्ततं चिन्तयेद्यः । अन्यमतम् 1 अनुष्ठाङ्घ्रिक पादसन्धिषु तथा जानूरुगुह्येष्वतो नाभी हतूकुचकण्ठनासश्रुतिघृग्नेत्रे खलाटेऽप्यथ । श्रीषें तिथ्यवसानगा शशिकला प्रारभ्य नृणां स्त्रियां दाक्षिण्ये विचरेत् परामृतकळाया:स्थे विषं सप्तमे ॥ अस्यार्थः । शशिकला चन्द्रकला, प्रारभ्य शुक्लप्रतिपदारभ्य, नृणां पुरुषाणाम् । दाक्षिण्ये दक्षिणभागे च । स्त्रियां नारीणाम् । वामभा- ने इति शेषः । अङ्गुठे चरणे पादतले, तथा तद्वत्, जानुयुगले, जानू- परिभागे, लिङ्गे, अतः नाभौ, वचसि, स्तने, कण्ठे, नासिकायाम, श्रुतिश्रृक् कर्णः तस्मिन् युगले, नेत्रे, ललाटे, शीर्षे शिरसि, तिथ्यव- सानगा तिथीनां अवसानात् गच्छतीत्यर्थः । अमृतकलायाः सप्तमें स्थे सप्तमस्थाने, अपरं विषम् अन्यविषकत्वा, विचरेत् । अमृतकला- याः सप्तमं स्थानं विषवद्भवतीत्यर्थः ॥

  • दिइ ।