पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६८ ) ग्रीत्रा चाव्यथ नासिका च नयनं कर्णश्च चिल्ली तथा । तन्मध्यास्त्रथ शङ्खमस्तकमिति मारभ्य शुक्लादिमम् पुंसां दक्षिणतश्चरेत्तिथिवशादेदे सुधाया: कला || २०२|| अस्यार्थः । पक्षयोः शुक्लकृष्णयोः कथिता निरूपिता चान्द्री कला चन्द्रसम्बन्धी अंशविशेषः ऊद्धांधश्चलनक्रमेण शुक्ले ऊर्द्धचलनेन कृष्णे अधश्चलनेनेत्यर्थः वामभ्रुवां रमणीनाम् अङ्गुष्ठे, वरणे, गुल्फनि- लये गुल्फस्थाने, जानुद्वये, वस्तिके नाभ्यधोभागे, नाभौ, वचसि, जङ्घयोः, कण्ठे, कपोले गण्डे, अधरे, नेत्रे, कर्णयुगे, ललाटफलके, मौली शिरसि, च निगदिता उक्ता || सीमन्ते नयनेऽधरे च गलके कक्षस्तवे चूचुके नाभी श्रोणितटे मनोभवगृहे जङ्घातवे गण्डके | गुल्फे पादतले तदङ्गुलितटेऽङ्गुष्ठे च तिष्ठत्यसौ वृद्धिक्षीणतया समं शशिकला पक्षद्वये योपताम् ।। हास्यार्थः | पक्षद्वये शुक्लकृष्णयोः असो शशिकला चन्द्रकला वृद्धिक्षीणतया शुक्ले वृद्धया कृष्णो क्षीणतया क्षयेण समं समभावे- नेत्यर्थः योषितां नारीणां सीमन्ते कॅशे, नयने, अधरे, गलके कण्डे, वक्षस्तटे, उरसि, चूचुके कुचाग्रे, नाभौ, श्रोणितटे नितम्चे, मनोभ- वगृहे योनी, जङ्घातटे, गण्डके कपोले, गुल्फे, पादतले, चरणतले तद्- ङ्गुलितटे तस्य चरणस्य अङ्गुलिदेशे, अङ्गुष्ठे वृद्धाङ्गुली च तिष्ठति ॥ शुक्लपचे वसेद्वामे पादाङ्गुलिकनिष्ठ के । शुक्लप्रतिपदावी च कृष्णे चाधः प्रलम्वते || पुंसः सव्ये स्त्रिया वामे शुक्ले कृष्णे विपर्य्ययः । अस्यार्थ: । शुक्लपक्ष वामे चामभागे, योषितामिति शेषः । शुक्लप्रतिपदादौ च पादाङ्गुलिकनिष्ठके वसेत् शशिकलेति शेषः । कृष्णे कृष्णपक्षे, अधः मलम्वते च ॥ शुक्के शुक्लपक्षे, पुंसः पुरुषस्य, सव्ये दक्षिणे, स्त्रियाः चामे शशि- कला वसेदितिं शेषः । कृष्णे विपर्ययः पुंसः वामे स्त्रियाः दक्षिणे शशिकला वसेदित्यर्थः ॥