पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २७० ) आयुः पुष्टिश्रीवयःस्तम्भसम्पत् तेजोरूपाः शक्तयस्तस्य सन्ति ॥ २०७॥ पथ्याचित्रकशुङ्गिवेरमुशलीछिन्नोद्भवानां रजः तुल्यांशगुडपाकिमं दिनमुखे लेह्यं जनैर्निसशः । वृष्यं पुष्टिकरं जरापलितहत् तेजोवयोवर्द्धनं सर्व्वव्याधिहरं रसायनमिदं वर्षोपयोगाद्भवेत् ॥ २०८ ॥ इति रोगध्वंसविधिः इति सङ्कीर्णदशाविधानं नाम त्रिंशोऽध्यायः । 00 इत्यनवमदर्शिनः स्थविरस्य कृतौ दैवज्ञकामधेन्वां मङ्गल्यविधानप्रकरणं नाम तृतीयम् । wwwwwww..comm 11 १ पाकितं ॥ -*- विश्रामद्रीपभूमिर्ग्रहचरितफलग्रन्थसिन्धूपगाना मादेशग्रन्थचिन्तातपविवशधियां नितंस्वर्गगङ्गा । भास्वद्रावलीयं विविधविधिमयालङ्कृतौ सस्पृहाणां सन्तुष्टयै कस्य न स्यात् सुचिरमनुश्रुता दैवचित् कामधेनुः ॥ १॥ ग्रहगणितविधानं तत्फलं जातकाख्यं विधिमपि च निमित्तं सत्क्रियाणां विधानम् । स्पृहयितुरलमेके नैव शास्त्रेणं वें परिलघु लिखितेयं दैववित् कामधेनुः ॥ २ ॥ इत्यनवमदार्शना स्थविरेण कृता दैवज्ञकामधेनुः समाप्ता । -00. शिवमस्तु ।