पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६२ ) यमवारे च याम्यर्क्षे यमलग्ने विशेषतः । गण्डमालादिरोगेषु कण्ठजेषु चिकित्सितम् ॥ १४६ ॥ साधितं लाङ्गलीकल्के तैलं निर्गुण्डिकारसे । गण्डमालाश्च गलगण्डौ नाशयेन्नस्यकर्मणा ॥ १४७ ॥ हस्तक्ष भानुवाराधे कुर्य्यात् कुष्टचिकित्सितम् पछवैरर्क पूतीकस्तुहीव्याघातजातिजैः || उद्वर्त्तयेत् सगोमूत्रैः सर्व्वत्वग्दोपशान्तये ॥ १४८ ॥ वाकुची सतिला भुक्ता वत्सरं कुष्ठनाशिनी । भल्लातकं तिलञ्चैव गुढ़ापेण्डीच कुष्ठजित् ॥ १४९ || मूले वा पुष्यनक्षत्रे गुदरोगचिकित्सितम् । पूतीकवहिरजनी त्रिफला तिलचूर्णयुक् । तक्रं गुदाङ्कुरे पेयं भक्ष्या वा सगुडाभया ॥ १५० ।। रौद्रे सार्पैच शक्रेच कुर्य्यान्मेहचिकित्सितम् । फलदाची विशालाभ्रकाथो दार्खिरसोऽथवा | पातव्यो रजनीकलकक्षौद्रयुक्तः प्रमेहिनाम् ॥ १५१ ॥ स्वातो वा मित्रनक्षत्रे चिकित्सा श्रोणिते हिता । वासा गुडीची व्याघातकाथस्त्वेरण्डतैलयुक् । बातश्रोणितहृत् पीतः पिप्फली स्यात् प्लिहाहरी ॥१५२॥ दत्रमे शनिवारे च चिकित्सा जदरामये । सेव्या जठरिणा कृष्णस्नुक्षीरवहुभाविता । पयो वा चव्यदन्यज्ञविषगौ व्योषकल्कयुक् ॥ १५३ ॥ ग्रन्थिकान्यभया कृष्णा बिलङ्गाक्ते घटे स्थितम् । || मसन्तकं ग्रहण्यर्शः पाण्डुगुल्माक्रमीन हरेत् ।। १५४ ।। फलत्रयामृतावासा तिक्तभूनिम्वनिम्वजः । काथः समाक्षिको हन्याद पाण्डुरोगं सकामिलम् ॥१५५॥