पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५८ ) विपशोफौ कदुष्णौ तौ प्रान्सपोन्तलको ऽपि वा ॥ १०६ ॥ इति मण्डलिचिकित्सा || -:0:- अटवीं कारवल्लीच कन्दक्षीरेण पाययेत् । शारिबायास्तथा मूत्रैर्नस्यं वा इन्ति राजिलम् ॥ १०७ ॥ वचा चिर्मिट वर्षाभू मूलानि सह कञ्जिकैः । पिवेद्राजिलजं सर्व्वे विषं नश्यति निश्चितम् ॥ १०८ ॥ सैलेन गृहधूमस्य नस्यं राजिलदेशिनाम् । तदहर्वत्मविरं मूत्र नस्यं तत्र फणीन्यपि ॥ १०९ ॥ मागधक्षौद्र सिन्धूत्थान गोशकद्वारिणा सह । पाययेद्राजिलैर्दष्टं क्षणं निविपतां व्रजेत् ॥ ११० ॥ परिशुष्कन्तु सम्पिष्टय नरगूथं तदम्भसा | पाययेदुगतौ व्यालविषसहरणाय तु ॥ १११ ॥ इति राजिलचिकित्सा ॥ -:0: सर्व्वाहिविषनाशाय टङ्कनस्य रजोऽम्भसा | नस्य लेपन पानाद्यैरुपदेशोऽयमुत्तमः ॥ ११२ ॥ पुनर्नवरसेनैव रामठं कीत्तितं बुधः । नस्यं कुब्वत सर्व्वेष्वप्येकं वैकुण्टिकारसम् ॥ ११३ ॥ चम्पकस्य रसैर्नस्यं सर्व्वसर्पविषापहम् । बहुमूलस्य सौवीरैर्नस्यपानाञ्जनादयः ॥ ११४ ॥ अर्कपत्रेण लवणं नृमूत्रेण च पेषयेत् । लिम्पेत् सर्व्वविषं जयमिति प्रोक्तं पुरातनैः ॥ ११५ ॥ इति सर्व्वविपचिकित्सा | 10:-