पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नागवल्लीदलरसं रामठेन समन्वितम् । कंसे करेण सम्पिष्टं लिम्पेद् दृचिकनाशनम् ११६ ॥ कराभ्यां नक्तमालस्य दलं पिवा विचक्षणः | विद्धमदेशे बनीयात् सद्यो दृश्चिकमस्यति ॥ ११७ ॥ वचा दिनकरक्षोरे लिप्ता वृश्चिकनाशिनी । लाजया सह संयुक्ता श्रवणान्तर्गतं मलम् । वेधे सङ्घर्षणेनैव विषं वृश्चिकजं जयेत् ॥ ११८ ।। पलासवीजमर्कस्य क्षीरेण सह पेषितम् । लिम्पेद् दृश्चिकवेधे तु वहुभिः किं वितर्कनैः ॥ ११९ ॥ इति वृश्चिकविपचिकित्सा | -::- कपित्थोत्थितवन्दार्कक्षीरेण सह पेंषयेत् । अष्टादशविधं घोरं मौषिकं नाशयेद्विषम् ॥ १२० ॥ असाध्यासुविषे दष्टे सरटेन सिनाखुना | मातर्माहिपतंक्रेण शालिपानञ्च पूजितम् ॥ १२१ ॥ समूलं हंसनादिन्तु गुञ्जां वा क्षीरपेषिताम् । पाययेल्लेपयेचैव मूषिकस्य विधं जयेत् || १२२ ॥ इति सूषिक चिकित्सा | 10:- रसेन लेपनं कुर्य्याच् छिरीषमुनिपत्रयोः । लूत प्रस्यापि वा तोयैर्ल्ता सद्यो विनश्यति ॥ १२३ ॥ पुष्पं दलं फलं कल्कं मूलञ्चैव शिरीषजम् । योगो ऽयं लूतकोटादि विषध्वान्तस्य भास्करः || १२४ ॥ इति लूताविषचिकित्सा |