पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५३ ) वृश्चिकालीकणाकुष्टलवणानि च भागिका । अपस्मारविनाशाय तच्चूर्ण नसि योजपेत् ॥ ५६ ॥ सर्वोन्मादविनाशेषु सर्व्वग्रहविधिष्वपि । रुद्रभञ्च चतुष्पादो मन्दाभं वृश्चिकोदयः ॥ ५७ ॥ मले द्वयं क्रमाद्विष्णु विपूर्ण वहिसुन्दरी । कर्णे जपाद्ग्रहं हन्याद्भूतेशव्यानतोऽथवा || ५८ ॥ हृदयञ्च चतुर्थ्यन्तो भगवान् रुद्र इसपि । शत्रुन्ते महिरण्यस्माद्भैरवो देव इसपि । समस्तोऽयं चतुर्थ्यन्ते पदान्येतानि योजयेत् ॥ ५९ ॥ ग्रहान् नर्त्तय मोटय वल्गय क्रीडय उग्रचण्डहुंफट्ठठ । एपभूतपिशाचादौ सर्व्वकमैकरो मनुः । अस्य स्मरणमात्रेण मलीयन्ते ग्रहादयः ॥ ६० ॥ इतिगृहध्वंसविधिः । कृत्तिकाभरणीस्वातिर्मूलं पूर्व्वत्रयाश्विनी । विशाखार्द्रामघाश्लेषा चित्रा श्रवणरोहिणी ॥ ६१ ॥ तारास्तास्सर्पदष्टस्य दुष्टा मन्दकुजौ तथा । पञ्चमी चाष्टमी पष्टी रिक्ता दष्टस्य निन्दिता ॥ ६२ ॥ तस्यातिनिन्दिता कृष्णे पञ्चमी च चतुर्दशी । सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश्च राशयः ॥ ६३ ॥ देवालये शून्यगृहे वल्मीकोद्यानकोटरे । रथ्यां सन्धौ चैसतरौ श्मशाने सिन्धुसङ्गमे ॥ ६४ ॥ द्वीपे चतुष्पथे सौधे गहने वेत्रपदूमयोः । पर्व्वताये बिलद्वारे जीर्णकूपाश्मकूटयोः ॥ ६५ ॥