पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४८ ) ग्रहानभिष्टा मरणप्रयाता व्रतक्षयायास्तगतश्च शुक्रः ॥ ५ ॥ यदि भावाश्रितश्चन्द्रो लग्नस्थःशुभदःसदा । चतुर्थे दशमे जीवस्तपस्सिद्धिं प्रयच्छति ॥ ६ ॥ धर्मस्थानगताःपापा न चिराद् व्रतभङ्गदाः । मत्रज्याभिहिता योगाः मन्ब्रज्यायां सुशोभनाः ॥ ७ ॥ पञ्चमस्थश्च माहेयः चन्द्रश्च नवमं गतः । मन्दश्च सहजस्थाने व्रतसिद्धिं प्रयच्छति ॥ ८ ॥ इतिप्रव्रज्याविधिः ।

0:

उत्तराणां त्रयं पुष्यमनुराधा च रोहिणी | वारुणं वमु मित्रेति नवव्रतविमुक्तये ॥ ९ ॥ तौलिकन्यानृयुग्मीनाः शुभवारांशकादयः । त्रिकोणगौ सितेन्दू च व्रतमुक्तौ शुभावहाः ॥ १० ॥ इतिप्रव्रज्यामुक्तविधिः । उत्तरायणगे भानौ मासि कुम्भविवज्जिते । यजमानानुकूल बलयुक्त निशाकरे ॥ ११ ॥ अस्तशैशववार्द्धक्यमुक्तयोज्जवशुक्रयोः । ब्रह्मादितीन्दुतिष्यान्तहस्ताश्चात्युत्तरत्रये देवप्रतिष्टा कर्त्तव्या सौम्यवारोदयादिषु । ॥ १२ ॥ अयुग्मास्तिथयःशस्ताः युग्माठु दशमी तथा ॥ १३ ॥ स्थिरक्षेत्रगतश्चन्द्रः स्थिरराभ्युदयःशुभः । उच्चस्थानगतश्चन्द्रो यजमानःशुभावहः ॥ १४ ॥