पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४५ ) होरा गुरुमती लाभे पापसंघसमाश्रिते । इन्द्रारज्ञसमायुक्ते यातुःसर्व्वार्थसिद्धिदा || ६१ || लग्नार्थगेषु सौम्येषु दशमे रविसंयुते । गमनं विजयारोग्यमर्थसिद्धि प्रदास्यति ॥ ६२ ॥ त्रिकोणकेन्द्राश्रितसर्व्वसौम्यास्तृतीयपष्टायगताश्च पापाः । फलान्त यातुः शुभमिन्दुरेको लग्नाचतुर्थङ्गतवांश्च तद्वत् ॥६३॥ यदा कलत्रगश्चेन्दुः शुक्रज्ञौ गृहमागतौ । गन्तव्यमपि चारेण तदा सर्व्वार्थसिद्धये ॥ ६४ ।। पञ्चम्यां शुक्लपक्षस्य स्वातौ गुरुदिनोदये । क्रयावक्रययात्रायां योगोऽयं परमो मतः । ६५ ।। मित्रर्क्षेण प्रयातस्य शक्रे पर्युषितस्य च पुनर्मूले प्रयातस्य कार्य्यसिद्धिर्भविष्यति ।। ६६ ।। हुस्तेन गत्वा मथममपर्युष्य द्वये ततः । पुनश्चतुर्थे सम्माप्तः शत्रुवर्ग स वाधयेत् ॥ ६७ ॥ स्थित्वैकं दिवसं तिष्ये रेवत्यां वाथ वासवे । सीम्नि भूयः भविष्टोऽन्तर्बहुलाभमवाप्नुयात् || ६८ ॥ इति यात्रायोगः | गुरावत्युच्चगे लग्ने लाभे शुक्रसमागते । शनेईकाणे संदृष्टो राजावश्यं वशी भवेत् ॥ ६९ ॥ चरे वर्गोत्तमे भागे तत्स्थयोः सोमजीवयोः । सदृष्टश्चन्द्रहोरायां राजावश्यं वशी भवेत् ॥ ७० ॥ भोमचारे बुधक्षेत्रे हकाणे वसुधाभुवः । मन्दे व्ययगते युद्धं कुर्व्वाणो लभते जयम् ॥ ७१ ॥