पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवाकरे तवस्पृशि मीनमेषयोः शशीशिशुक्षिणतुङ्गशृङ्गवान् । घटोक्षयोस्तुल्याणवानतोऽ वशेषराशिश्च यमुत्तरोन्नतः ॥ १ ॥ प्रतिपच्छशिनः शृङ्गं तुङ्गमुत्तरतो मनाक् नौका चेन्नाविकापसः शेषाणां शोभना वचः ॥ २ ॥ अन्नतौ लागुलवत् पीडातदुपजीविनाम् । सुभिक्षञ्च महीपानां शश्वत् मीतिरनुत्तरा ॥ ३ ॥ अन्नतं यदा याम्यं शृङ्गं दृष्टहलाह्वयम् । बलमुद्योजयेदाशु पाण्ड्यराज्यं निहन्ति च ॥ ४ ॥ उदिते दण्डवच्चन्द्रे गवां पीडा नृपोग्रता । समयोः शृङ्गयोः क्षेममुभिक्षदृष्टयः शुभाः ॥ ५॥ मही यस्य शशाङ्कस्य रेखा दुर्भिक्षहारिणी । अल्पीयसी तु दुर्भिक्षभयं वितनुते नृणाम् ॥ ६ ॥ उक्त संस्थानविरहादुत्तरोन्नतशृङ्गवान् | शस्यदृष्टिकरी याम्यतुङ्गो दुर्भिक्षकृच्छशी ॥ ७ ॥ इति बिम्बनिर्णयः । 000

प्रथमादिषु सन्दृष्टा रेखा चान्द्रमसो नृणाम् ! आयुष्यमर्थमारोग्यं दुर्य्यशश्च प्रयच्छति ॥ १ ॥ सोभाग्यमर्थलोपञ्च भयं शोकं शिवं शुभम् । व्याधि धत्ते सूर्य्यादि वारदृष्टः शशीशिशुः ॥ २ ॥ तृतीयाच्चानुकूलोक्तदिने भार्गववासरे । दृष्टो नवशशी कुर्य्याद्वस्त्राप्तिर्मासिकविभिः ॥ ३ ॥ १ यमुत्तरोततः ।