पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२ ) शोध्यात्तेऽन्तरकालार्ताः शेषा यात्रा निशि स्मृताः । सान्तराद् विकलाः पिण्डान्निशामानाद्विशोधयेत् ॥ ८॥ शेषं पूर्व्वाम्बरे शुक्ले व्यतीताः स्यु विनाडिकाः । स एव विकलापिण्ड: संयुक्तोत्तरसंज्ञितैः ॥ ९ ॥ पूर्वीम्बरस्थे शशिनि कृष्णे याता विनाडिकाः । निशामानविलिप्तीषु सान्तरो विकलागणः ॥ १० ॥ शोध्यशेपांगणाः ज्ञेयाः बहुले पश्चिमाम्बरे | घटिकाः साधयेदेवं चन्द्रच्छायापदैर्बुधः ॥ ११ ॥ इदानीं लिप्तिकाभिस्तु पदमुत्पादयेद्यथा | अन्तरत्र निशानाथममाणञ्च परस्परम् ॥ १२ ॥ शोधयेद् भागहारः स्याच्छेषः शुक्ले पराम्बरे । अन्तरञ्च निशानाथयुक्तरात्रिमाणकम् ॥ १३ ॥ जह्यात् परस्परं शुक्ले भाजक: माग्विहायसि । निशि व्यतीतकालस्य चान्तरस्य यदन्तरम् ॥ १४ ॥ तदिदम्भागहारः स्यात् प्राच्यां कृष्णे निशाकरे । सान्तरस्तु निशा याता निशामानविशोधिताः ॥१५॥ कृष्णे तु पश्चिमाकाशे भागहार इति स्मृतः । नरसेना निशार्धेन ताडयित्वा तथा पुनः ॥ १६ ॥ इष्टेन भाजकेनातं फलं तीरे समुत्यजेत् । नतातमङ्गुलं शेषं व्यङ्गुलं परिदीपयेत् ॥ १७ ॥ अवच्छायामिह क्षिप्ता दलयेव पुनरेव तत् । चन्द्रच्छायापदं नाम शेषमव स्थितम्भवेत् ॥ १८ ॥ इति च्छायानिर्णयः । १ यात्रा । --000- २ निशामान । ३ गता । ४ मन्द्रस्काया !