पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१ ) इन्दुरस्तमितः माझ्याम्मतीच्यामुदयं व्रजेत् । विशोध्य चन्द्रतः सूर्य्ये शेषं कुर्य्याद्रिलिप्सिकाम् ॥ १ ॥ नीवाराम्बुनि वाक्यस्य सा चेदूना भविष्यति । शशाङ्कं नोदितं विद्यात् तनुनायदि सा भवेत् ॥ २ ॥ तामोदयराशेस्तु यो राशिः सप्तमो भवेत् । तस्य संस्कृतवाक्येन ताडयित्वा तथा पुनः ॥ ३ ॥ अनूनपादैविभजेत् ततो लब्धविनाडिकाः । समाश्चेत् पूर्व्ववाक्येन तदा दृग्गोचरः शशी ॥ ४ ॥ इत्यस्तोदयनिर्णयः । अस्ता नेन्दुतः पूर्व्वमस्ति चेत् तत्परियजेत् । शेषन्तु विकलीकृस सूत्रलब्धा विनाडिका ॥ १ ॥ अन्तरख्यारपेरस्तादाचन्द्रास्तं सिते स्थिताः । कृष्णे दिनकरस्यास्तादाचन्द्रोदयमन्तराः ॥ २ ॥ निशार्धचन्द्रगोलज्ञो विषमाधी विलिप्तिकाः | भाजयित्वा निशार्धेन कलां च विकलां ततः ॥ ३ ॥ नवभिः सर्व्वमाहस नीचाप्तमुपार क्षिपेत् । लीनेनोर्ध्वस्थमाहस लब्धं व्यङ्गुलमिष्यते ॥ ४ ॥ विषुवद् व्यङ्गुलेनैव दक्षिणोत्तरगोलयोः । योज्यं शोध्यान्न चेच्छोध्यं व्यक्तये न विशोधयेत् ॥ ५ ॥ यावच्छाया भवेत्तत्र शोधयेद्विगुणात् पदात् । न तैश्चाहस नीरार्थयुक्तो सौ भाजको भवेत् ॥ ६॥ निशार्द्धविकलाक्षुणसन्नीराः तेन भाजयेत् । माप्तास्तु विकलाः ज्ञेयास्थळे पक्षे पराम्बरे ॥ ७ ॥