पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिथेः खनासजेदेकं शुक्ले कृष्णे तु योजयेत् । विभज्य सुनुना शेपं जानीयात करणं चरम् ॥ १ ॥ बवञ्च बालवञ्चैव कौलवन्तैतिलं तथा । गरजो वाणिजो विष्टिश्चरतः करणसप्तकम् ॥ २ ॥ कृष्णपक्षे चतुर्दश्यामारभ्याचरमं दलम् । शुक्ले प्रतिपदः पूर्व्वदलो यावद्यथाक्रमम् ॥ ३ ॥ शकुनिश्च चतुष्पादो नागः किंस्तुघ्न इसपि । एवमर्द्धानि चत्वारि ध्रुवाणि करणानि च ॥ ४ ॥ इति करणनिर्णयः । 00 1 भानुः कलिदिने क्षिप्ता नाहस लुनाहृतम | अभीष्टतिथिसङ्ख्याः स्युः दत्वा तानवशेपितैः ॥ १ ॥ लक्ष्मी कलिश्च नन्दा च कालकर्णिजयाविधिः । धनुर्नमितिविज्ञेयं वाराणामित्र सप्तकम् || २ || हरो दुर्गा गुहो विष्णु ब्रह्मा लक्ष्मीर्धनेश्वरः । एते सूर्य्यादिवारेनाः सर्व्वे स्वाख्याः क्रियाशुभाः ॥३॥ इति वारदेवताः । 18*01 एवमृक्षं तिथियोगः करणञ्च चराचरम् । वारश्चेति विजानीयात् पञ्चाङ्गं दैवचिन्तकः ॥ १ ॥ इति पञ्चाङ्गनिर्णयः । १ खन्ना | २ घरम् । ३ प्रतिपदः । ४ बेनाहत्य ।