पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलं मलयवल्ल्यस्तु कृष्णधान्ये च वारुणम् | रेवती सर्व्वशालीनां रोपणे मुनिभिर्मताः ॥ ५२ ॥ राधानुराधा मूळञ्च हस्तश्चित्रेति पञ्चकम् | चन्द्रशुक्रसमायोगे ताम्बूली रोपणे हितम् ॥ ५३ ॥ ब्रह्माद्यास्तारकावाष्टौ हस्तं पुष्याश्विनी तथा । चन्द्रशुक्रसमायोगे इक्षुरोपे शुभावहम् ॥ ५४ ॥ उत्तरत्रयमादिसपितृचित्रार्कयोनयः । ब्रह्मविष्णुमृगा मूलं हितमुत्पलरोपणे ॥ ५५ ॥ उत्तरत्रयविश्वान्यसर्पमूलानि षीधनैः । अङ्कुरीभूतसस्यानां प्रशस्तानि हि रोपणे ॥५६॥ मन्दवारे च विश्व लग्ने सूर्यमुनस्य च । सस्यरक्षाविधानार्थमुटजं कारयेद् बुधः ॥ ५७ ॥ सिहोदये शनेवरे याम्ये नक्षत्रसङ्गते । प्रतिमां स्थापयेत् क्षेत्रे पशूनां शस्यविद्विषाम् ॥ ५८ ॥ स्वस्ति किष्कन्धाधिपत्रकटपराक्रमाविष्कारादे ड्रमण्डलोप- जीवितः श्रीहनुमानाज्ञापयति मूषिकपतङ्गपिपोलिकशरभसारम्भ- मृगमेतीकीटाद्यैर्नस्थातव्यमाज्ञागतिक्रम्यमानस्य शरीरं निग्रहं समावर्त्तयते तस्य वानरसिंहस्याकममानस्य सागरं कक्षारं तरङ्गतो वायुजमूत इव गर्जति हुं फट्नमः || मन्त्रं पत्रे समालिख्य जदूत्वा तन्निखने तदा । भुवि कीटलवङ्गाखपिपोल्यादिविनश्यति ॥ ५९ ॥ समभ्यज्य महातैलैः सपत्वन्मयवत्तिकाम् | नयेत् प्रदीप बामेन सस्यकीटास्सजन्ति तत् ॥ ६० ॥ विलिख्य तुम्बुरो बीजमिष्टिकायां विचक्षणः । १ यथायोगे । २ समायोनादिक्षुरोपे ।