पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३१ ) अष्टाविंशोऽध्यायः । 10:-- वक्ष्याम्यतः परमहं लघुना क्रमेण स्पेष्टान्वयैरुपचयार्हदशाविधानम् | भूमिप्रवेशकृपिक मेविशिष्टवस्तु वीजाप्तिसङ्ग्रह वणिग्मरणानि तत्र ॥ १ ॥ प्रविश्य विधिवत्पूर्व्व विधीत कृषि ततः । उत्तरत्रयमा च चित्रा याम्यञ्च मित्रभम् ॥ २ ॥ स्वातिर्मधानुराधे च पुष्यं शस्तं प्रवेशने विदोपास्तिथयः शस्ताः श्रेष्टं भौमदिनं तथा ॥ ३ ॥ कैश्चिचन्द्रदिनम्मोक्तं बुधजीवौ तु मध्यमौ । गोकुलीरालिकन्यानामुदयांशाः शुभाः स्मृताः । इति प्रवेशविधिः । •:0:- रेवतीपुण्यहस्ताश्च रोहिणी चोत्तरत्रयम् । अदितिर्मूलमियेतद् विशिष्टे कृषिकर्म्मणि ॥ ४ ॥ राधानुराधा स्वातिश्च विष्णुःपैत्रं त्रिपूर्व्वकम् । चित्राश्विनीतिचैत्राणि परे माहुःकृषिक्रिये ॥ ५ ॥ शुक्र ार्कज्ञेन्दुजीवानां वारवर्गोंदयाः शुभाः । विदोषास्तिथयःसर्व्वाः कृषिकर्म्माणि पूजिताः ॥ ६॥ मृगो मीनःकुलीरश्च मिथुनं वृषभोदयः । श्रेष्टो धनुस्तुला कन्या मध्यमा कृषिकर्म्मणि ॥ ७ ॥ १ स्पष्टान्यैः । * प्रतिमानयेथ।