पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३० ) स्वमध्यद्विगुणा यामाः सते हेमनिर्मिताः । मुखे विस्तीर्यमानास्ते क्रियमाणेषु शोभानाः ॥ १५४ ॥ राज्ञःपञ्चशिखं पहुं त्रिशिखं पुत्रभार्य्ययोः । सेनापते रेकशिखं शिखाविरहितोऽपरम् ॥ १५५ ।। अङ्कसमाङ्गुलं मातो हर्त्ता जीवितराज्ययोः | मध्ये विष्फुटितस्त्याज्यः पार्श्वे विष्फुटितस्तथा ॥ १५६ ॥ यत्रमानेन पट्टेषु चतुर्वर्गावधेि जंगुः । सम्भोन्नुरनुकूलोऽयं पट्टो विजयवर्द्धनः ॥ १५७ ॥ इति पट्टविधिः । पञ्चादशाङ्गुलमितः भवरः कृपाणः । मोक्तः पुराणनिपुणैरथमस्तदर्द्धम् । अङ्कःसमाङ्गुलगतः शुभरुपकश्चे दिष्टाहवस्त्वित रथा विपदं विधत्ते ॥ १५८ ।। काणते मरणं काण्डे पराजयश्चापवर्त्तिते कोशात् । स्वयमुद्गीर्णे युद्धः ज्वलिते विजयो भवेत् खड्गे ॥१५९॥ नाकारणेन व्रणयन्न वदेच मूल्यं पश्येन्न तत्र वदनं न विघट्टयेच | देशेन तस्य कथयेत्प्रतिमानयेच नैव स्पृशेन्नृपतिरमियतोऽसि यष्टिम् ॥ १६० ॥ इति खड्गविधिः । -000 इत्युपभोगदशाविधानं नाम सप्तविंशोऽध्यायः ॥ १ अङ्कस्सावाङ्गुग्रोक्तो ।