पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लौहे पात्ने तण्डुलान् कोद्रवाणां शुक्तौ पत्क्का लोहचूर्णेन सार्द्धम् । लिप्त्वा रुक्षे मूर्ध्नि शुक्याम्बु केशे दत्वा तिष्टेदू वेष्टयित्वाईपवैः १४४ याते तृतीये महरे विहाय दद्याच्छिरस्यामलकमलेपम् । प्रच्छाद्य पत्रैःमहरदयेन प्रक्षालनं कार्यमुपैति शीर्षम् ॥१४५॥ पचाच्छिरः स्नानसुगन्धितैलैल्लोहाम्लगन्धान शिरसोपनीय । हृद्यैश्च गन्धैर्विविधैश्च धूपैः सनिर्विशेद्राज्यसुखं प्रियाभिः ॥१४६॥ इति भूषणविधिः । -000-- विरक्तचेष्टा भ्रुकुटी मुखत्वं पराङ्मुखत्वं कृतविस्मृतिश्च । असम्भ्रमो दुष्परितोषतांच तादेष्टमैवी परुपञ्च वाक्यम् ॥१४७॥ सुस्पृष्टमालोक्य दुनोति गावं करोति गर्ने न रुणीद्ध यान्तम् । चुम्बादिरामे वदनममाष्टिः पश्चात्समुत्तिष्टति पूर्व्वसुता ॥१४८॥ इमास्तु विद्यादनुरक्तचेष्टा प्रियाणि ब्रूते च धनं ददाति । विलोक्य संहृष्यात वीतरोषः प्रमाष्टिदोषान् गुणकीर्त्तनेन ॥ १४९ तन्मिवपूजा तदरिष्टमैवी कृतस्मृतिःप्रोपितदौर्मनस्यम् । स्तनौष्ठद् नैरुपगृहनञ्च स्वेदोऽथ कम्पम्मथमाभियोगे ॥ १५० ।। यस्यामनूनामनुरक्तचेष्टां निरीक्षते तव रमेत धीमान् । सा चेत् पराधनिवधून तत्र रमेत लोकद्रयवृद्धिमिच्छन् ॥१५१॥ इति स्त्रीविधानम् । मध्येऽष्टाङ्गुलविस्तीर्ण पहुं राज्ञःशुभावहम् । महिष्याःससविस्तीर्ण युवराजस्य षडङ्गुलम् ॥ १५२ ॥ चतुरङ्गुलविस्तीर्ण पहं सेनापनेर्भवेत् । द्वाभ्यां प्रसादप स्यात् परं पञ्चैवमीरितम् ॥ १५३ ॥ १ स्थानाष्टद्वतैः । २ लोकवायवृद्धामेच्छन् ।