पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ ) अन्तर्निगृहमलिना कृतिकेशधातु - युक्तं समस्तजनदुःखवधाय रत्नम् ॥ १३४ ॥ यत् स्निग्धमम्भसि क्षिप्तं लघुप्रतरनिश्चयम् । अदृष्टं विदृतं वज्रमवशसरिपापहम् ।। १३५ ॥ वज्रं न किञ्चिदपि धारयितव्यमेव पुत्रार्थिनीभिरवलाभिरुषन्ति तज्ज्ञाः । शृङ्गाटकत्रिपुटधान्यकवस्थितं यत् श्रोणीनिभञ्च शुभदं तनयार्थिनीनाम् ॥ १३६ ॥ एकावला नाम यथेष्टसंङ्ख्या हस्तप्रमाणा मणिविमयुक्ता । संयोजिता वा मणिना तु मध्ये सा यष्टिरुक्ता सकलेन भोज्या ॥ १३७ ॥ निवृत्तस्य हि वित्रस्य नेष्टमाभरणं सदा । यज्ञकुण्डलतःशेपं शेषस्य सकलं शुभम् ॥ १३८ ॥ चतुर्वर्गविधानेन भूषणं मुकुटादिकम् । नामजन्मक्षयोरिष्टं धारयेद्धरणोपतिः ॥ १३९ ॥ - सौभाग्यं वकुलेऽथवापि ककुभे सर्जे च कुन्दे यशः । पाटल्यां समितं जने च पटुतामाधुर्यमाम्लातके | निर्गुण्ड्यामाप रोगशोकहरणं जम्वाम्रयोःपाटवम् पुन्नागे विजयो जयश्च तिलके नागे तथोदुम्वरे ॥ १४० ॥ उदङ्मुखं प्राङ्मुख एव वासौ जोषं यथेष्टं विनिमार्ण्य दन्तान् । जलाजलौ शीतगुमण्डलस्थं ध्यात्वा जपित्वा च तुरीयमुच्चैः १४१ मक्षाल्य वक्त्रं विधिवद्विधिज्ञो ध्यात्वाथ देवं व्यनुलिप्य तैलैः । देहन्ततो जप्तशुभञ्जनेन व्यभ्यज्ज्य नेवं सकलं प्रियं स्यात् १४२ तुल्यस्त्रियोगं मकरोऽतिरागं रागक्षयं पूंगफलातिरिक्तः । चूर्णाधिको वत्तत्रविकारगन्धिःपत्राधिकःसाधु करोति गन्धम्।। १४३