पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२१ ) वास्तुमध्ये तथा ब्रह्मा ज्ञेयो नवपदाधिपः ॥ ५८ ।। तस्य पूर्व्वादिकोष्टासु चत्वारापट् पदेश्वराः । आर्यमा च विवस्वांश्च मित्रश्च पृथिवीतरः ।। ५९ ।। सावित्रःसविता चामेर्ब्रह्मणोऽन्ते व्यवस्थितौ । विजयश्च महेन्द्रश्च निर्ऋतेश्च ब्रह्मोत्तरे ॥ ६० ॥ रुद्रश्च राजयक्ष्मा च वायुर्ब्रह्मान्तरे स्थितः । आपश्चैवापवत्सश्च रुद्रह्मान्तरे स्थितौ ॥ ६१ ।। एतेऽष्टौ कोष्टमेकञ्च कोष्टार्द्धञ्चैव भुञ्जते । तत्तत्पादेषु ते देवाः पूजनीया यथाविधि ॥ ६२ ।। पदमध्यं पदाग्रश्च वस्तुनो मर्म्स कथ्यते । पदाष्टमगतं मम तुलास्तम्भादिषु स्मृतम् ॥ ६३ ॥ खरकी च विदारी च पूतना चैत्र राक्षसी । ईशानादिषु कोणेषु चाह्यस्थाश्च पिशाचिकाः ॥ ६४ ॥ रविःशुक्रःकुजो राहुः सौरश्चन्द्रो बुधो गुरुः । मागादिकास्तु दिक्पाला: पूजनीया यथाक्रमम् ॥ ३५ ॥ भूम्यारम्भं विधायैवं वनारम्भो विधीयते । परिघं परिहृयैव सर्व्वारम्भविधि जगुः ॥ ६६ ॥ पौराणिकास्तु न ग्राह्याः स्तम्भोत्तरतुलेष्टिकाः । चैसश्मशानगा वृक्षाः सच्छिद्रा वह्निदुषिताः ॥ अपशस्ताच जन्मर्क्षाः जाता स्तम्भादिनोचिताः ॥३७॥ विदव्याद्वांशिकं स्तम्भं द्वादशांशं ततःक्रमात् । एकादशविभागं वा दशभागमथापि वा ॥ ६८ ॥ द्यांशोनं कर्णपादःस्याद्वारवाहा ततोऽपि च । नरांशोऽन्यव विष्कम्भो' तदंशेनाहिभागनुत् || ६९ ॥ १ चामेर्द्धझानोन्नव्यवस्थितौ ।