पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१६ ) मध्यं दिनगते भानौ मत्स्यपुच्छावतारिणी । शङ्कुच्छाया 'मुपातव्या शकुनैव यथांशकम् ॥३५॥ विषुवव्यङ्गुलं नाम तदेतत् परिकीर्तितम् । अङ्गुलं द्वितयं तत्र पदमीसाभिधीयते ॥ ३६ ॥ यवमर्धाष्टकं ज्ञेयमङ्गुलम्मध्यमस्य तु ।। पुंसो दक्षिणहस्ते तु मध्यमाङ्गुलसम्भवन् ॥ ३७॥ मध्यपर्व्वापि वा ज्ञेयं वितरित द्वादशाङ्गुलम् । हस्तो वितस्ति द्वितयं दण्डः स्यात्तच्चतुष्टयम् ॥ ३८ ॥ ग्रामादौ दण्डमानं स्याद्धस्तमानं ग्रहादिषु । शयनासनश्च खट्दादौ विद्यादङ्गुलमानकम् ॥ ३९ ॥ भूषादौ यवमानञ्च विज्ञातांशो नियोजयेव । दैर्घमाहस विष्कम्भैश्चतुर्वर्ग ततो नयेत् । ४० ॥ • अष्टने च त्रिघ्लैः शिष्टं नक्षत्रन्तुरगादिकम् । कर्तुर्नामर्शजन्पर्क्षविरुद्धं वास्तु वर्जयेत् ॥ ४१ ॥ अष्टने भानुना शिष्ट आयः स्यात्व्ययतोऽधिकः । त्रिले मनुहृते शिष्टो व्ययःस्यात् किञ्चिदायतः ॥ ४२ ॥ नक्षत्रेष्वष्टशिष्टन्तु व्यय इसपरे जगुः । त्रिघ्ने वाष्टहृते शिष्टं योनयो ऽष्टौ ध्वजादयः ॥ ४३ ॥ ध्वजो धूमो हरिश्चागो खरश्चेभश्च वायसः । ध्वजगोगजसिंहेषु वस्तु वृद्धिकरं मतम् ॥ ४४ ॥ ओजयोनियुतं यत्स्याव्ययादायाधिकञ्च यत् । कर्तुस्तारानुकूलं यत् तद्भवेद्रास्तु वृद्धिदम् ॥ ४५ ॥ इदं लक्षणमुद्दिष्टं वशिष्टेन महर्षिणा । केचित् षड्वर्गमध्याहुत्तरावयवो यथा ॥ ४६ ॥ १ प्रमातव्या । २ वात्तंरथ्यावचों यथा ।