पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१८ ) भस्मकाष्टास्थिलोष्टा वा वर्जयेत्तत्र तद्गृहम् ॥ २२ ॥ शुभे मुहुर्ते सम्माप्ते दैवज्ञम्ब्राह्मणानपि । पूजयित्वाथ वस्राद्यैः कारयेत् कर्पणं ततः ॥ २३ ॥ यवसिद्धार्थकादीनि तव बीजानि वापयेत् । तेषु मरुहटद्धेपु गोभिस्तोमिच खादयेत् ॥ २४ ॥ समीकृय ततो भूमि पञ्चगव्यैर्विशोधयेत् । ज्ञात्वाम्बुभिश्च तत्साम्यं माप्ते शुभदिनोदये ॥ २५ ॥ शकुपड़ङ्गुलानाहमुत्सेधाद् द्वादशाङ्गुलम् | समवृत्तमुजं मूर्द्धनि बुदबुदाभं निवेशयेत् ॥ २६ ॥ शकुपादतलाधस्तात्कलिकन्निकने तथा । शकुपादो यथाधस्तात्किञ्चित् स्पृशति भूतलम् ।। २७ ।। शङ्कुकील निवद्धेन शकुमानेन तन्तुना | परितो विलिखेट्टतं क्रमात्पूर्व्वापराह्नयोः ॥ २८ ॥ शङ्कच्छाया यदा रेखां प्रवेशोपक्रमैः स्पृशेत् । तत्र बिन्दुद्रयं देयं ततः शीतेतरत्विषा ।। २९ ॥ ज्ञात्वायनञ्च वीथिञ्च भुक्ताभुक्तानि तत्र च । याम्येन वाथ सौम्येन मध्यच्छायां विशोधयेत् ॥ ३० ॥ स्वदेशोदयरेखा यामुदयसंशुमालिनी | मध्यच्छाया च न भवेद्रज्वीच्छाया च शाङ्कवी ॥ ३१ ॥ माची च पश्चिमा चैवं समसूत्रागता भवेत् । दिग्विन्दुद्रयमारभ्य पृथवृत्तद्र लिखेव ॥ ३२ ॥ ॥ मत्स्यपुच्छद्रयाकारो याम्योत्तरदिशोर्भवेत् । चत्वारो वाहवः कार्य्याः समावाप्याथवा यतः ॥ ३३ ॥ विषुवदिवसे चैवं शङ्कोर्मण्डलमालिखेत् । विन्दुद्रयस्थवृत्ताभ्यां मत्स्यपुच्छौ प्रसाधयेत् ॥ ३४ ॥