पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमःसप्तलाभी स्यादित्येवं पक्षितारकाः । भिन्नपक्षिषु नाशः स्यादेकपक्षिषु शोभनम् ॥ ६७ ॥ इति पचिनियमः । -000 प्रथमा नवमी चैत्र ब्रह्माणीध्वज एव च । इन्द्रोरविरथैते पट् माचीन्दि शिमुपाश्रिताः ॥ ६८ ॥ द्वितीया दशमी धूमः कौमारी भौम एव च । अनिश्च पडिमे सर्वे माग्दक्षिणदिशि स्थिताः ॥ ६९ ।। तृतीयैकादशो सिंहो देवमन्त्री यमस्तथा । वाराही च तथैते षट् दक्षिणस्यां दिशि स्थिताः ॥ ७० ॥ चतुर्थी द्वादशी चैत्र वैष्णवी चन्द्रनन्दनः । निरुतिः सारमेयश्च स्थितो दक्षिणपश्चिमे ॥ ७१ ॥ पञ्चमी च त्रयोदश्यां सार्द्धमैन्द्री तृषा तथा । वरुणः शुक्रसंयुक्तः पश्चिमान्दिशमाश्रितः ॥ ७२ ॥ पष्टी चतुर्दशी चैव चामुण्डीकर एव च । पवनः शिखिना युक्तः पश्चिमोदग्दिशि स्थितः ॥ ७३ ॥ सप्तमी पौर्णमासी च गजो माहेश्वरी तथा । शशी वेश्रवणश्चैवमुत्तरस्यां दिशि स्थितौ ॥ ७४ ॥ अमावास्याष्टमी चैव राहुःकाकस्तथेश्वरः । महालक्ष्मीरिति मोक्ता मागुदग्दिशि संस्थिता ॥ ७५ ॥ ब्रह्माणि पूर्व्वदेवीनामस्वाद्यमण्डलैस्त्रिभिः । योजनीयास्त्रयञ्चान्सं वैष्णव्याधीनमीरितम् || ७६ ॥ तारकास्तुल्ययोगिन्यो दम्पयोरतिशोभनाः । अनिष्टाः भिन्नयोगिन्यो न चिरान्मरणप्रदाः ॥ ७७ ॥ इति योगिनीनियमः । 000 १ पश्चिमोठ्यदिशि स्थिताः । 4