पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०६ ) सार्पाच्चतुष्कं याम्यञ्च रौद्रं त्वाष्ट्रात् त्रिकं जलम् । विश्वेन्दुवासवाःपुंसःखीलिङ्गाः समुदाहृताः ॥ ५८ ॥ सौम्यवारुणमूलानि नपुंसकदिनानि हि । उभयत्रावशिष्टास्तु पुंलिङ्गास्तारका दश || ५९ ॥ पुंसि पुंलिङ्गतारा चेव स्त्रियस्त्रीलिङ्गभं यदि । उत्तमं विपरीते स्यादधमो मध्यमोऽन्यथा || ६० ॥ इतिलिङ्गनियमः । -000 ब्रह्मक्षत्रियविशूद्रानुलोमप्रतिलोभकाः अश्वाद्याश्शततारान्ताः पौनः पुन्येन कीर्त्तिताः ॥६१॥ शेपास्त्रयस्त्रिवर्णानामेकजातौ शुभं मतम् । मध्यमं भिन्नजातौ स्यादधमं प्रतिलोमके ॥ ६२ ।। इतिजातिनियमः । मरीचिश्च वशिष्टश्चाप्याङ्गिराश्चात्रैरव च | पुलस्यः पुलहश्चैव क्रतुश्चेति महर्पयः || ६३ || अश्विन्यादिषु ताराषु साभिजिवसु यथाक्रमम् । चतुर्भिर्मण्डलैय्यज्यः भुनयोगोऽत्रयोगतः ।। ६४ ।। दम्पत्योर्जन्मनक्षत्रमेक गोत्रे भवेद्यदि । प्रायशः कलहाय स्याद् भिन्नगोत्रे शुभावहम् || ६५ ॥ इतिगात्रनियमः । मेरुण्डः पिङ्गलः काकः कारण्डश्च शिखावलः | अश्विन्यादिषु विज्ञेयाश्चत्वारः पञ्च लाभिनः । ६६ ।। २७