पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०७ ) विनाषष्टाष्टमं तेषु शेषश्चेदेकनायकः । दम्पसोः शुभमित्युक्तं सारस्वतमते पुनः ॥ ४० ।। राशिर्यदि च दम्पसोस्तृतीयैकदशौ शुभौ । कुटुम्बहद्धिदौ स्यातां यदि चाष्टमसप्तमौ ॥ ४१ ।। इतिराशिनियमः । -0. सुहृदौ यदि दम्पसोभवने यौ हिताय तौ । मध्यमौ मध्यमौ मोक्तो वैरिणौ वैरिकारणौ ॥ ४२ ॥ इतिराश्यधिपतिनियमः । मेषस्यालिहरीवश्यं दृपे कर्कटतौलिनौ । यमस्य कन्यकावश्यं कक्किनश्चापदृश्चिकौ ॥ ४३ ॥ तुला सिंहस्य कन्यायां यममत्स्याबुदीरितौ । द्यूकस्य मृगपार्थोना वलिनः कर्कटो भवेत् ॥ ४४ ॥ चापस्य मीनो नक्रस्य मेषकुम्भाबुदीरितौ । मेषःकुम्भस्य वश्यं स्यान्मीनस्य मकरो भवेत् ॥ ४५ ॥ अभिन्यामानसोख्यानां दम्पसोर्वश्यराशिभिः । ततोऽवश्यमवश्येन विवाहेषु विचारयेत् ॥ ४६॥ इति वश्यनियमः । ●000. पादस्थिता मघामूलपौष्णाश्वीन्द्रभुजङ्गमाः । ऊरुस्थिता यमेज्याप्यमित्रोपान्सभगाह्वयाः ॥ ४७ ॥ नाभिस्थिता विशाखादियार्थ्यमाजाग्निविश्वकाः वाहुस्थिता हरिब्रह्मशिवाम्बुधिवायवः ।। ४८ ॥ ।