पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०४ ) दैवज्ञं सुखमासीनं सम्पूज्यादौ यथावलम् । दम्पयोराख्यया सार्द्धं सकृत् पृच्छेच्छुभाशुभम् ॥ १३॥ तत्कालवाक्ये केन्द्राभ्यां ततो ज्ञात्वा शुभाशुभम् । त्रिकालज्ञा इवाचष्टे दैवज्ञः शास्त्रचक्षुपा ॥ १४ ॥ लग्ने पापग्रहैर्युक्ते नीचशत्रुग्रहस्थिते । अष्टमे सप्तमे चैव दम्पसोर्न शुभस्तदा ॥ १५ ॥ पापयुक्तोदयाच्चन्द्रः पष्टे वाअष्टमे स्थितः । विवाहसमयान् मृत्युं दद्यादब्देऽष्टमे तयोः ॥ १६ ॥ मनलग्ने यदा चन्द्रस्तस्मात् पष्ठाष्ठमे कुजः । अष्टाब्दैर्मनुजो याति यमालयमपुत्रकः ॥ १७ ॥ लग्नाष्टमे यदा पापा रिपुनीचनिरीक्षिताः । विधवा सा भवेत् कन्या लग्नं पापयुतं यदि ॥ १८ ॥ नीचस्थःशत्रुसंदृष्टः पापः पञ्चमगो यदि । कुलटा सा भवेत् कन्या मृतपुत्राथवा भवेत् ॥ १९ ॥ स्थितौ यदेन्दुमाहेयौ लग्नसप्तमयो: क्रमात् । यमालयं तदा याति सप्तमे मासि मानवः ॥ २० ॥ सप्तमं यदि शून्यं स्यात् दुर्व्वलं दुर्ग्रहे क्षितम् । सौम्यग्रहदृशा हीनं भर्ता कापुरुषो भवेत् ॥ २१ ॥ मन्दे सप्तमराशिस्थे पापशत्रुनिरीक्षिते । कन्यैव विधवा भूला जरामपि च गच्छति ॥ २२ ॥ पापः पञ्चमराशौ चेद्रन्ध्या वा पुत्रनाशिनी । नीचारिराशौ पापश्चेद्रीतपुष्पा भवेधूः ॥ २३ ॥ पुत्रस्थेषु शुभेष्वेषु बहुपुत्रवती भवेत् । स्वर्क्षतुङ्गत्रिकोणेषु तत्पुत्राः बहुजीविनः ॥ २४ ॥ इतिविवाहमश्ने शुभाशुभनियमः । ·000-